Book Title: Nandanvan Kalpataru 2004 00 SrNo 12
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
-
Opan हंसा हंसं प्रति
TTP
NA
प्रा. जगन्नाथपाठकः
3/44, MIG झूसी इलाहाबाद-२११०१९
G
उड्डीय व गता भवन्त इत इत्येते न जानीमहे यूयं मानसनाम्नि वा सरसि नाऽस्माकं दृशां गोचराः । किं त्यक्त्वैव वसुन्धरां श्रयथ वा लोकोत्तमं ब्रह्मणः ?
किं वा पादतले निलीय वचसा देव्याः समे तिष्ठथ ? ॥१॥ यद्यप्यत्र खगान् सुपक्षतिपुटान् सद्भिः स्वरैर्मण्डितान् प्रायो नित्यमितो नदीतटगताः पश्याम एते वयम् । युष्मान् किन्तु सकूत् ववचत् तरुतले द्रष्टुं सकामा भूशं दृष्टिर्नः समुपोषितेव सुतरां क्लान्तेव नोन्मीलति ॥२॥
धन्यास्ते तव खेलितं सुललितं ये पीतवन्तो दृशा धन्यारते ननु यैः क्षणं तव शुभारावाः श्रुतिं प्रापिताः । चढूंषि श्रुतयश्च हन्त तृषितास्तिष्ठन्ति येषां सदा
ते सर्व जगतीह जीवितमृता हंस ! त्वधन्या वयम् ॥३॥ आकाशाज्यमहासरोवरगतं धीरं तरन्तं मुहुः पश्यामो निशि चन्द्रमेक मुदितं तं पौर्णमास्यां तिथौ । त्वं दृष्टः खलु पूर्वजन्मसु तदाऽस्माभिः स्मृतौ कल्प्यसे साक्षात्कार इह त्वदीय इति स प्रीणाति नः स्वात्मनः ॥४॥
पूर्णं विग्रहवत् प्रतीयत इतस्त्वय्येव सद् ब्रह्म तत् त्वय्येव स्मृतिकल्पिते मन इदं पुष्णाति शुभ्रां स्थितिम् । नीरक्षीरविवेक इत्यतिशयं ख्यातो गुणाग्रेसरस्त्वय्यस्माज्जगतो गते स नु गतो दिव्यस्त्वदीयो गुणः ॥५॥
2TA
Jain Education International
१७ For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122