Book Title: Nandanvan Kalpataru 2004 00 SrNo 12
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
RAKER
SNVR
कामं नाम कदर्थयन्तु बहुधा त्वां सन्ततं वायसाः कामं नाम बका भवन्तमथवा निन्दन्तु रात्रिन्दिवम् । उच्छिन्नेऽपि जगत्यहो तव निजेऽस्तित्वे त्वमेवैकको जातो व्योमविहारिणामिह कुले सदिर्हृदि स्थाप्यसे ॥६॥
निःश्रीकाणि सरोवराणि सुबहोः कालादरे त्वां विना मनन्त्येव महोत्पलानि कलभाः कृत्वा प्रवेशं ततः । शुष्यन्मानसमेव लक्ष्यत इतो मन्ये भृशं त्वां विना
त्वं कुत्र धियसे सुहंस ! चलितं पश्येम किं तावकम् ? ॥७॥ लेखन्या विषयं विधाय सुकविरत्वां कालिदासोऽभवत् त्वां संकीर्त्य यशोऽधिकः स भवभूतिः कीर्त्यते भूतले । श्रीहर्षस्य च नैषधीयचरितं त्वय्यर्पितं वर्तते हे हंस ! त्वदधीनमेतदधुना मन्मानसं तिष्ठति ॥८॥
शोभन्ते न सरोवराणि सुतरामेतानि रे त्वां विना तेष्वेतानि महोत्पलानि नितरां क्लिश्यन्ति रे त्वां विना । निर्गच्छ त्वमदृश्यकोटरगतस्त्वां द्रष्टुकामा वयं ।
साफल्यं सकृदप्यतीव गमयाऽस्माकं दृशां सम्भवम् ॥॥ पूर्वं यानि सरोवराणि सुधिया संसेवितानि त्वया हंस्या प्रत्यहमेव येषु विहिताः सार्धं त्वया केलयः । तेषां हन्त तटेषु वासमधुना कुर्वन्त्यही वायसास्तेषां जायत एव नित्यकलहः प्राप्तैर्बकैः साम्प्रतम् ॥१०॥
कीराः सन्ति सहस्रशोऽत्र ललिताः सन्त्येव ते केकिनः पारावातशतानि शान्तमधना तिष्ठन्त्यहो लक्षशः । सन्त्येवाऽन्यखगा इतश्च विविधैर्वणैः स्त्रैर्मण्डिता अस्मान् त्वं तु न हंस ! दृश्यस इयं दुःखाकरोति स्थितिः ॥११॥
-
Jain Education International
For Private Cersonal Use Only
www.jainelibrary.org

Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122