Book Title: Nandanvan Kalpataru 2004 00 SrNo 12
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 47
________________ ॥१५७॥ खर्जूरतालपत्रनिर्मितचित्रच्छत्रमस्तकाः कृषकाः । केदारेषु गान्धिनः स्वदेशनयं शिक्षयन्तीव इन्द्रो वृत्रं जघान पुराणी वार्तेतिहासो नित्यः । घनघ्ने वजे वृष्टि रुक्तस्तु प्रकूतवादी ॥१५८॥ हूदनदीनदझरसराः सोलासा इदानीं सरसरम्याः । यौवनागमे व नवे लावण्यधाराऽवार्येव । ॥१५९॥ प्रभुः शयानोऽनन्ते चाऽऽदेवोत्थानमकरुणो भाति । शापसमयोऽनपगतो यक्षः पुनरपि दूतं हरति ॥१६०॥ सा सैव सैव मात्रं दिशि दिशि दिशि दिशि चाऽन्तराले शबला । स स एव स एव पुनस्तस्या खलु विरमृता वर्षा ॥१६१॥ प्रकृतावप्यद्वैतं कथं न मन्यतेऽद्वैतीति तर्कः । सा स्वातव्यं शिवस्य वर्षेवेन्द्रस्य न द्वैतम् ॥१६२॥ प्रकृतिरेव किं नेश्वरो भागवतकार:' समर्थो भाति । बृहस्पतिस्त्वपि हृष्टो वर्षासवो मोहयत्यखिलम् દુરૂ शरदि रिरंसुः कृष्णः कथमिति तर्कये घनाघनक्षोभात् । त्रस्ता एणीरिवाऽङ्गनाः सौन्दर्यमीमांसाहेतुनेति ॥१६४॥ द्वारवतीद्वारान्ते कान्तमालक्ष्य मेघाभिनिविष्टम् । वदति जरती रुक्मिणी बाल्यकौतुकं स्मर्यते किम् દુકો पली केतकाभरणाऽमन्दगन्धमयी मोदते स्नाता ।। गन्धवती पृथ्वीति काणभुजसमयोदाहृतिरिव ૩૬૬ો. चिलिकासन्ध्या दिग्वधूः सीमन्तिनी तु सा न भाति । न हि, सा सद्यःस्राता तमो वाञ्छन्ती स्वतन्त्रेव ॥१६७॥ १. स्वयं प्रकृतिरीश्वर इति भागवतम् । २. कालिङ्गसमुद्रतटे महाहूदः । Jain Education International For Private Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122