Book Title: Nandanvan Kalpataru 2004 00 SrNo 12
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
कुष्माण्डकारुमित्रेऽलाबूकं वदतः स्फीतं वाक्यम् । पनसस्य कालो गतो वयं मुख्य-गृह-रक्षाऽमात्याः ॥७७॥ रासभोऽपि रसिकवरः सति रसे प्राकृतजनग्रहणीये । रण्डाभुग्भोगीव रजकः पयोधरेषु स्तिमितः
૭૮ द्वारिकामालोक्य कविः कृष्णरोषं प्रेक्षते शतधारम् । राधाऽदर्शनविषण्णं प्रावृषेण्यं हृतवृन्दावनम्
॥७९॥ श्रीजगन्नाथोऽधिपतिर्नीलशैलवसतिः किं पुनस्तस्य ।। वन्याहतजनतायां स खलु नूतनकल्पारम्भी
૮૦ની आसिन्धुप्राप्तिं किल व्याप्तिं शिखरिशिखरबिन्दुर्जलदजः । तित्यक्षति न कदाचिन्निःशेषश्रमाद्धि वस्तुगतिः
૮ वन्यावात्याव्याहत-व्यामोहाः सधना निर्धना अधुना । सर्वकारदत्तभुजः सुखदुःखे कस्य पुनः स्थिरे ? ॥२॥ वर्षानदीपूरे स गोबालको गोमहिषपुच्छकरः । नदी तर्ता पृष्ठेव राजाऽयति शास्तुं चरर्णभुवम् ॥३॥ शेषा मासाः काल्या दासस्य कठिना अकठिनहृदयस्य । विरहिणो वर्षारोधे कमठायन्ते त आनिर्देशम्
૮૪ો हरिहरयुगलस्येह हरितपदलक्ष्माऽऽभाति निर्वचनात् । अनिर्वचनीयजनुषौ मन्ये श्यामघनकालोऽजनि
૮૬ો पदपथप्रान्ते मिथुनं निशोपगूढं वृक्षाश्रयबद्धम् । सद्यो विद्युद्वर्षाहतं हा दरिद्रमनोवल्ली
૮૬ો तथाऽपि माता तुलसी वर्षासु सिञ्चति धर्मकामाढ्या । पुत्रा भवन्तु योग्याः पतिश्च सुखी कीर्त्याउनवद्यः ॥७॥
१. गोचारणभूमिः ।
Jain Education International
For Private
Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122