Book Title: Nandanvan Kalpataru 2004 00 SrNo 12
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 7
________________ मुनिविश्रुतयशविजयः वाचकानां प्रतिभावः नन्दनवनकल्पतरोरेकादशी शाखा प्राप्ता । पठनादतीवाऽऽनन्दो जातः । सम्पूर्णं पठित्वा रसभरा नैके विषया आस्वादिताः ।। द्रव्यानुयोगविदां पूज्याचार्यश्रीधर्मधुरंधरसूरीश्वराणामध्यात्मसारानुगमस्तु संक्षेपरुचीणां जिज्ञासूनां कृतेऽतीव लाभदायी अस्ति ।। तथैवाऽष्टादश-पापस्थानकालोचनाशतकमपि प्राञ्जला रचनाऽस्ति । योगबिन्दुदोहनं पठित्वा विंशतेरेकोनविंशतेर्वा वर्षेभ्यः पूर्वं यत्पठितं तत्स्मृतिपथमागतम् । तद्गतोऽतीव महत्त्वपूर्ण एकः श्लोकोऽद्याऽपि स्मर्यते "आत्मीयः परकीयो वा, कः सिद्धान्तो विपश्चिताम् । दृष्टेष्टाबाधितो यस्तु, युक्तस्तस्य परिग्रहः ॥” इति । यत्नः प्रशंसनीय एवाऽस्ति । नमिप्रव्रज्याऽपि वैराग्यवर्धिकाऽस्ति। चिन्तनधारायाः तात्पर्य तु सर्वस्मिन् स्थाने विधायकदृष्ट्या प्रवर्तनीयमित्यत्राऽस्ति। अहो बुद्धिमत्ता तु व्यङ्गयकथा प्रतिभाति । प्राज्ञपुरुषस्य उत्तराः रङ्गमञ्चश्चेति कृतिद्वयमप्युत्तमम् । पत्रेऽपि चिन्तनं सम्यगस्ति । आहत्य सम्पूर्णोऽयमको रुचिकरोऽस्ति, इति । ttt. HAIRAOGroDNA Jain Education International 6 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 122