Book Title: Nandanvan Kalpataru 2004 00 SrNo 12
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 5
________________ दिल्लीदूरदर्शनकेन्द्रेण ज्ञानदर्शनचेनलद्वारा तेषां सम्भाषणशिबिरस्य क्रमशः प्रसारणं कूतमासीत् । अन्यन्तं गौरवस्य विषय एषः । संस्कृतभाषां ते जननीमिव सेवन्ते । लोकहृदये संस्कृतं प्रतिष्ठितं स्यादित्येतदेव ते स्वपरिश्रमस्य मूल्यं फलं च गणयन्ति । तत्फलरूपेण च तत्र प्रदेशे यदा-यदा संस्कृतनाटकानामायोजनं भवति तदा तदा शतशो संस्कृतप्रेमिणो जनास्तद् द्रष्टुं गच्छन्ति । एतादृशी सा तेषां निष्ठा वन्दनीयैव । इति शम्। वि.सं. २०६० -- कीर्तित्रयी वैशाखशुक्लतृतीया (अक्षयतृतीया) थाणा (मुंबई) 2990 सूचना पूर्वं सूचितमासीदस्माभिर्यत् 'इतः परं सन्धिरहितमेव साहित्यं प्रेषणीय मिति । प्रथमं तावत् तद् मुद्रणसौलभ्यमेव मनसिकृत्य सूचितमासीत्, न केवलं वाचकानां पठनसौलभ्यमित्यवधार्यम् । किन्तु बहूनां विद्वज्जनानामभिप्राय एवं जातो यत् 'सन्धिसहितस्यैव साहित्यस्य प्रकाशनं वरम्, अन्यथा संस्कृतसाहित्यात् सन्धिः कदाचित् विस्मृताऽपि स्यात्-इति । अतो मुद्रणदुष्करतामङ्गीकृत्याऽप्यस्माभिः पूर्वतन एव पन्थाः समाश्रितोऽस्ति । अतोऽतः परं सन्धिसहितमेव साहित्यं प्रकाशयिष्यते इति ज्ञेयम् । 265 Jain Education International For Private & Personal Use Only www.jainelibrary.dg

Loading...

Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 122