Book Title: Nandanvan Kalpataru 2004 00 SrNo 12
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 10
________________ | Ot) वाचकानां प्रतिभावः वीर, पूज्यमुनिपुङ्गवत्रितयाय हार्दाः प्रणती: विधाय लेखनमिदं प्रस्तुवे एकादशी नन्दनवनकल्पतरोरावृत्तिः मया अधिगता । तदर्थं बहवो धन्यवादाः । तत्र प्रबन्धाः सर्वेऽतीव मनोज्ञा विचारपूर्णा च विराजन्ते । सन्धिरहितलेखनविषये मे मन्तव्यं किञ्चिन्निवेदयामि । वाचकानां सुकरतासंपादनाय अयं प्रयोग इति स्पष्टम् । एवमपि अनेन वाचकानां तथैव पत्रिकाया अपि भाषाप्रौढिमायाः संवर्धनस्य स्थाने हास एव संभवितेति मे मतिः । कालेन संस्कृतं सन्धिरहितमेव, सन्धिसहितं संस्कृतं तावन्नास्तीति अल्पतृप्तो वाचकवृन्दो निश्चिनुयात् । अश्वत्थामा किल बाल्ये मात्रा हीनविभवया दुग्धस्य स्थाने पिष्टमिश्रितसलिलेन संवर्धितः । वर्धमानोऽसौ लब्धश्रीमत्कौरवाश्रयः प्राप्तविभवो मात्रा प्रदत्तं दुग्धं तिरस्कृत्य तदेव 'नैजं दुग्धं' (पिष्टमिश्रितसलिलं) ववाञ्छ । वाचकानामेषा दुःस्थितिर्माभूदिति मे आशयः। काचित् किल माता उल्लङ्घनस्पर्धालोः स्वपुत्रस्य कष्टपरिजिहीर्षया मीटरद्वयं नियतमौनत्यं हासयित्वा साधैंकमीटरमितं व्यधात् । अनेन मातृविहितेन सहायेन बालस्य उल्लङ्घनाभ्यासः सुकरः सञ्जातः । परं स्पर्धायां तु वराक: पराजितः । ईदृश्या दुःस्थितेः वारणाय पत्रिकाया द्वित्रासु आवृत्तिषु सरलः सन्धिपाठोऽर्थात् प्रमुखानां सन्धिप्रक्रियाणां परिचयः प्रदीयताम्, येन वाचकाः सन्धिसहितस्य संस्कृतस्य मनोज्ञतामास्वादयेयुः, प्रौढिमाञ्च सन्दध्युः । एकादशे नन्दनवनकल्पतरौ मुनिरत्नकीर्तिविजयलिखितं "तदपि न मुञ्चत्याशापिण्ड''मितीदं लेखनमतिमार्मिकं, हृदयस्पर्शि, बोधप्रदं च वरीवर्ति । सप्रेम, सविनयं • ब्रह्मानन्देन्द्रसरस्वती Jain Education International For Private Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 122