Book Title: Nandanvan Kalpataru 1999 00 SrNo 01
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
आमोदं वितनोति पुष्पनिवहो वर्षन्ति मेघास्तथा [द्योतं कुरुतेऽर्यमेन्दुयुगलं भेदं विना कुत्रचित् । यस्यैवंविधवर्त्तनं हि सकले लोकेऽनुभूतं ध्रुवं तस्य श्रीगुरुनन्दनस्य कृतिन: कुर्वेऽद्य भक्त्याऽर्चनम् ॥५॥
निश्रा यस्य रसालपादपसमा सन्तापशान्तिप्रदा भूता सत्पथदर्शिनी शुभकरी सङ्घस्य भद्रङ्करी। अर्हत्सङ्घहितैकभावितमति: पुण्यौघसम्पयुतो
जीयान्नन्दनसूरिराड् गुरुवर: श्रीसङ्घमुख्यश्चिरम् ॥६॥ धैर्य स्मारयति क्षमाभृतमहो! गाम्भीर्यमप्यप्पतिं ज्ञानं यस्य च दर्पमुक्तमनघं ननं फलाद्यैर्द्वमम्। इत्याधुच्चगुणालिभि: जनमनोमोदप्रदाभिः सदा ख्यातं श्रीगुरुनन्दनं व्रतिवरं वन्दे त्रिधा भावतः॥७॥
“यस्याऽस्तीह न कोऽपि तस्य गुरुराट् श्रीनन्दन: सत्तमः” लोके ख्यातिरितीव यस्य प्रथिता सर्वत्र पुण्योज्ज्वला । अद्याऽप्यत्र विराजतेऽक्षययशोदेहेन दीप्रेण य: तस्य श्रीगुरुनन्दनस्य शरणं भक्त्या श्रये श्रेयसे ॥८॥
३५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92