Book Title: Nandanvan Kalpataru 1999 00 SrNo 01
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
गुरुभिरुक्तं - “ नाऽहमेवंरीत्याऽस्मै दीक्षां दित्सुः। इतोऽप्येनं क्वचिदन्यत्रैव प्रेषयिष्यामि। अत्र तु नैव स्थापयामि।”
एवं तैः सह विमृश्याऽन्यदिन एव मुनिश्रीप्रभावविजय-जीतविजयाभ्यां सह स गोधरानगरं प्रति प्रस्थापितः। ते प्रथमदिने रायपुरग्राम उषित्वा द्वितीयदिने वलादग्रामं प्राप्ताः। तत्र प्राप्तमात्रमेव नरोत्तमेन मुनिश्रीप्रभावविजयाय विज्ञप्तं - “ भवानद्य मह्यं दीक्षां ददातु।” श्रीप्रभावविजयेन निषिद्धं यद् - “गुरुभगवतामियमाज्ञा यन्मामनापृच्छ्य ते दीक्षा न देया।” तेनाऽप्यत्याग्रहं कृत्वा पुनरपि विज्ञप्तं - “मेऽद्यैव दीक्षां देहि। पश्चाद्यद्भविष्यति तत् सर्वमहमेव सम्भालयिष्यमि।” ___ तस्योल्लासं दृष्ट्वोत्साहयुक्तेन मुनिना तद्वचनं स्वीकृत्योपाश्रय एव जिनप्रतिमा स्थापयित्वा दीक्षाविधिरारब्धः । अत्राऽन्तरेऽहमदाबादतो गुरुभिस्तत्रत्यवृत्तं ज्ञातुं प्रेषितो नर आगतः । तेनाऽऽनीतं गुरुभगवतां पत्रं सद्भाग्येन नरोत्तमायैव दत्तम् । पत्रे दीक्षावार्ताऽपि निषिद्धाऽऽसीत्। तत् पठित्वा नरोत्तमेन सङ्गोपितम् । ततो दीक्षाविधिरारब्धः । वैक्रमीयस्य ख-मुनि-निधिसोम-मितवर्षस्य (१९७०) माघमासस्य शुक्लद्वितीयादिने दीक्षितस्य नरोत्तमस्य नाम मुनिनन्दनविजयेति स्थापितम् । क्रियावसाने तेन स्वयमेव पत्रे लिखितं, 'यन्मयाऽद्य दीक्षा गृहीता। अतोऽन्यं साधुभगवन्तमत्र गमयेत।' तच्च दत्त्वा ऽऽगतं जनमहमदाबादं प्रेषितवान् । ___ दीक्षासमाचारं ज्ञात्वा विस्मितैर्गुरुभगवद्भिः पंन्यासश्रीप्रतापविजयगणिवरास्तत्र प्रेषिताः । ततस्ते चत्वारोऽपि मुनयो विहृत्य द्रुतमेव गोधरानगरं प्राप्ताः।।
दिनद्वयं तत्र स्थित्वा त्वरितगत्या मालवप्रदेशंप्रति प्रस्थिता:। तद्वर्षे तै राजगढनगरे चातुर्मासं कृतम् । अथाऽन्यदा मुनिनन्दनविजयं विना त्रयोऽपि मुनयो ग्लानीभूताः । तदा व्याख्यानं को वाचयेत् ? ' इति चिन्तयता पं.श्रीप्रतापविजयेन नूतनमुनये पृष्टम् -“ किं त्वं व्याख्यानं वाचयसि ?” तेनाऽपि सोत्साहं स्वीकृतं तत् । ततस्तेन वर्धमानदेशनाभिधो ग्रन्थो जनसमक्ष व्याख्यातुमारब्धः, रुचिरतया व्याख्यातश्च । नूनं “ किमसाध्यं महात्मानम् ? ” ।
इतो महेसाणानगरस्थपाठशालाया अध्यापकेन कर्मचारिभिश्च नरोत्तमपलायनवृत्तान्तो बोटादनगरे तत्पित्रादिभ्यो ज्ञापितः । तज्ज्ञातमात्रमेव पितृ-भ्रात्रादयः सर्वे स्वजना: सम्भूय येन
४०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92