Book Title: Nandanvan Kalpataru 1999 00 SrNo 01
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
अस्यां प्रवृत्तौ चित्रं त्वेतद् यत्-शक्तौ ज्ञाने च सर्वोपरित्वेन वर्तमानो मनुष्यो जीवनपर्यन्तं निष्फलं. प्रयतमान:सन् एकवारमपि नैवं विचारयति यद्-'यदहं करोमि तत्किं सुखप्राप्तेर्वास्तविकोपायोऽस्ति न वा?' यदीत्थं प्रश्नो भवेत् तदा विवेको जागृयात् यद् -'यद्येष एव सुखस्य वास्तविकोपायो मार्गोवा तर्हिसमग्रंजगदायुगान्तरादेवमेव चेष्टते तथाऽपिन केनाऽप्येतन्मार्गगामिना सुखस्याऽन्तः प्राप्त: । 'अहं पूर्णः सुखी'ति कथयितुं न कोऽप्यलम् । अत एतस्मादन्यस्य कस्याऽप्युपायस्य शक्यता वर्तते' इति।
एवं विवेको यस्य चेतस्युद्भवति स मार्ग प्राप्नोत्येव। किन्तु सुखैषिणो जनस्य स्थितिम॒गमदार्थं भ्रमन्मृग इव वर्तते । अत्र - स मृगोऽज्ञानतयैवैवं चेष्टते, मनुष्यस्तु मनोऽधीनत्वेन विवेकं ज्ञानं वाऽनुपयुञ्जान: सन् प्रवर्तते - इत्येतावन्मात्रमेव भिन्नत्वम् । स्थिते: सत्योऽवबोधोऽशक्य एव मृगस्य किन्तु मनुष्य: सत्यप्राप्तये समर्थोऽस्ति । तस्याऽस्ति दिग्दर्शनं कारयद् बलिष्ठं ज्ञानरूपमालम्बनम् । ज्ञानाद् यो यावान् दूरः स सत्यतोऽपि तावानेव दूरः । एवं सत्याद् यो दूर: स सुखादपि दूर एव । ज्ञानिनो महापुरुषाः स्वकीयाया: साधनाया: पारावारं समग्रतयाऽवगाह्य वास्तवानुभूतिं कुर्वन्ति । पश्चाच्चाऽनुभवसिक्तहृदयात् यच्छब्दरूपेणोद्भवति तदेव शास्त्रम् । दृष्टिमुद्घाटयन्ति शास्त्राणि । दृष्टयुद्घाटनेनैव वस्तुस्थितिआतुं शक्या। अन्यथा भ्रान्तावेव भ्रमणं भवति । वयं तु आभासिक्या: परिस्थित्या एव सुखप्राप्तये यत्नवन्तः स्मः' - इत्येतदेव रहस्यमद्यपर्यन्तमस्मदीयाया प्रवृत्त्या निष्फलत्वे वर्तते।।
एतेन श्लोकेन सूरिपुरन्दराचार्यश्रीमद्हरिभद्रसूरिपुङ्गवा: सदसद्विवेकं परिज्ञाप्य वास्तवदर्शनं कारयन्ति । अस्मिन् श्लोके नाऽस्ति केवलं सुख-व्याख्या, अपि तु स्थिरसुखस्याऽनुभवपूतो बोधो विद्यते। ‘सर्वं परवशं दु:खम्'-अनेन दुःखस्य स्वरूपं दर्शयन्ति । यद्-यत्पराधीनं तत्सर्वं दुःखरूपमेव। ___ मनुष्यस्त्रिभिर्माध्यमैः सुखप्राप्तौ यतते। तस्य सर्वे प्रयत्ना एषु त्रिष्वेव समाविशन्ति। प्रथम - स किञ्चिदिष्टवस्तु वाञ्छति, द्वितीयं- यत्र मनो लग्नं तं जनं स्वकीयं कर्तुमिच्छति, तृतीयं च - सर्वथाऽनुकूलमेकं वातावरणं रचयितुं प्रवर्तते।
एषु त्रिषु प्राप्तेषु सत्सु स मन्यते यद्-अहं सुखी। किन्तु वस्तुतस्तत्सुखं कोऽनुभवति ? एष
६२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92