Book Title: Nandanvan Kalpataru 1999 00 SrNo 01
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
तपनमिति तपः। अष्टप्रकारं कर्मोघं तापयतीति तपः। ताप्यन्ते रसादिधातवोऽनेनेति तपः।
अनन्तभवनिकाचितकर्मणो दहनं कर्तुं तप एव समर्थं, नाऽन्यत् किमपि । अन्याभिर्धर्माराधनाभिः पुण्यबन्धो भवति, किन्तु निर्जरा तु तपसैव भवति।
श्रीवाचकमुख्येन श्रीतत्त्वार्थाधिगमसूत्रे कथितम् - तपसा निर्जरा च।
अत्राऽपि यदि पुण्यबन्धस्पृहया तप: क्रियेत तदा तपसा निर्जरा न भवति, तत्र नि:स्पृहत्वाभावात्।
शास्त्रेषु तपो द्विविधमुक्तम् - बाह्यतप: आभ्यन्तरतपश्च। तत्र बाह्यं तपः षड्विधम् - अनशनं, ऊनोदरता, वृत्तिसक्षेपणं, रसत्याग:, कायक्लेश:, संलीनता च।
आभ्यन्तरतपोऽपि षड्विधम् - प्रायश्चित्तं, विनयः, वैयावृत्त्यं, स्वाध्यायः, उत्सर्गः, ध्यानं च। ___ अत्र बाह्यतपसा शरीरशुद्धिस्तथाऽऽभ्यन्तरतपसाऽऽत्मिकशुद्धिर्भवति । एतेनाऽऽत्मनो मलिनवासनादिविकारा नश्यन्ति।
एतद् धर्मस्य स्वरूपम्। अथ धर्मस्य माहात्म्यं किम् ?
ये उपरि वर्णितं धर्ममाराधयन्ति तेषां जीवने कदाऽपि जरा-मरण-शोक-क्लेशाद्युपद्रवा न प्रविशन्ति। सदा तेषां जीवने कल्याणपरम्परैव प्रसरति। तथा एतादृशान् धर्माराधकानात्मनो देवा अपि नमस्कारं कुर्वन्ति, स्तुवन्ति।
तत आत्महितकाङ्गिभिराराधकैरेतादृशो विशुद्धो धर्म आराधनीयः, इति मे मतिः।
६८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92