Book Title: Nandanvan Kalpataru 1999 00 SrNo 01
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 81
________________ - कथा ॥धर्म एव वरं धनम् ॥ - मुनिरत्नकीर्तिविजयः एकदा शरशय्यास्थितो भीष्मपितामहो युधिष्ठिरं प्रति प्राह - “ देवा ब्राह्मणा: सन्तो यक्षाश्च सर्वे धार्मिकानेव पूजयन्ति, न तु धनाढ्यान् कामिनो वा। त्वदुपर्यपि यद्देवाः प्रसन्नाः सन्ति तस्याऽपि कारणमेतदेव यत् त्वं धार्मिक: धर्मनिरतमतिश्चाऽसि। धने सुखलेशो वर्तते किन्तु धर्मे परमं सुखं वर्तते। मत्कथनस्य पुष्टावेका कथां शृणु" - आसीदेको ब्राह्मणः। एकदा तस्य धनप्राप्तेरिच्छाऽभूत् । तेन विचारितं, यद् - यदि मां धन-प्राप्ति: स्यात्तर्हि यज्ञं करिष्यामि।' ब्राह्मणत्वाद् धनप्राप्तेरन्य उपायो न कोऽपि तेन लब्धः। अतो देवतानां प्रतिपत्तिरादृता । सर्वे देवा: सर्वाश्च देव्य: पूजिता: सन्तोऽपि न किञ्चिदपि तेन लब्धम् । अथ तेन विचारितं - एतेषां सर्वेषां देवानां परितो याचकानां महासमुदायो वर्तते। अपरं च , सर्वेषां जनानां प्रतिपत्तिं प्राप्य देवा अपि धृष्टा एव भूताः । अत आशुतोष: कोऽपि देवो मया शोध्य:।' __ एवं विमर्श कुर्वता तेनैको जलधरदेवदूतो नाम्ना कुण्डधार आकाशे भ्रमन् दृष्टः । तेन तस्य पूजा कृता। धूप-दीप-फल-पुष्पादिभोगान् ढौकयित्वा तं प्रसन्नं चाऽकरोत् । तद्भक्त्या प्रीणित: कुण्डधारश्चिन्तयति स्म , यत् -- यदीयत्या भक्त्या न किमपि प्रतिफलं दद्यां तर्हि कृतघ्नो भवेयम् । अपरं चाऽस्मिन् जगति सर्वस्मात् पापान्मुक्ति: शक्या किन्तु कृतघ्नताया नाऽस्ति किञ्चिदपि प्रायश्चित्तम्।' इति विचिन्त्य तद्ब्राह्मणस्य हितकरणार्थं स्वर्गमगच्छत् । तत्राऽऽसीन् मणिभद्रनामा देवः । पुण्यवद्भ्यो राज्यादिसुखस्य दानं, पापात्मनां च सकाशात् तस्याऽपहरणमिति तस्य कार्यमासीत् । कुण्डधारस्तत्र गत्वा तमनमत् । मणिभद्रेण पृष्टः सः - “भो कुण्डधार! किं वाञ्छसि त्वम् ?” कुण्डधारोऽकथयत् -“एष विप्रो मे भक्तोऽस्ति। अतस्तस्य सुखमिच्छामि।" मणिभद्रोऽवदत् - “ साधु साधु । यद्येतस्मै ब्राह्मणाय तव धनाभिलाषस्तर्हि कथय, कियद् ७४ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 79 80 81 82 83 84 85 86 87 88 89 90 91 92