Book Title: Nandanvan Kalpataru 1999 00 SrNo 01
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 86
________________ कथा ॥ झेनकथा ॥ -मुनिधर्मकीर्तिविजयः कस्मिंश्चित् नगरे सुवर्णासक्त एकः 'चाइनामा जनोऽवसत् । तस्य येन केनाऽपि प्रकारेण सुवर्णप्राप्तेर्लालसाऽऽसीत्। ___ एकदा पण्यवीथिकायां भ्रमन् स्वर्णकारापणमपश्यत् । ततः स सर्वेषु जनेषु पश्यत्स्वेव स्वर्णकारस्य सर्वं सुवर्णं चोरयित्वाऽनश्यत् । किन्तु त्वरितमेव स ग्रामजनै रक्षकैश्च बन्दीकृतः। तत आरक्षकेण पृष्टं - " भो! प्रभूतलोकमध्ये त्वं कथं स्वर्णं चोरयितुं प्रायतेथा: ? ” तदा तेन कथितं- “ तदाऽहं केवलं सुवर्णमेवाऽपश्यं, न त्वन्यत्किमपि । अतोऽहं सुवर्ण गृहीत्वाऽनश्यम्।” बोध: - “धर्ममाराधयद्भिरस्माभिरपि सर्वमन्यत् विस्मृत्य धर्मार्थमेव यतितव्यम्।” ७९ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 84 85 86 87 88 89 90 91 92