Book Title: Nandanvan Kalpataru 1999 00 SrNo 01
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
ततश्चाग्रे प्रस्थितौ तौ द्रुतमेवैकं ग्रामं प्राप्तौ । तत्र ग्राममध्ये नयनरम्यमेकं गृहं दृष्ट्वा कालिदासस्तदभ्याशे रथमस्थापयत्।
रथचक्रस्य ध्वनिं श्रुत्वा तद्गृहस्वामी गृहा बहिरागत्य तौ निरैक्षत । तत 'अज्ञातावेतौ' इति विमृश्याऽपृच्छत्- “आगन्तुकौ! अहं युवां नोपलक्षये, भवन्तौ कौ ? मम च भवद्भ्यां कीहक् सम्बन्ध: ?” तदेङ्गितेन भोजस्याऽऽज्ञां प्राप्य कालिदास इतस्ततो व्यलोकतैकं च बदरीवृक्षं दृष्ट्वोवाच -
“ अस्माकं बादरं चक्रं युष्माकं बदरीतरुः।
एतस्मात् कारणान्नूनं यूयं वयं वयं यूयम् ॥” एतच्छ्रुत्वाऽतिमुदितो गृहेशस्तौ द्वावपि निजगृहमानीय यथानुरूपं सत्काराद्यकरोत् । तदा भोजराज उवाच - “ सत्यं तव कथनं कालिदास!, बुद्धिचातुर्येण वचोमाधुर्येण चाऽज्ञातोऽपि मित्रायते।”
८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 86 87 88 89 90 91 92