SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ ततश्चाग्रे प्रस्थितौ तौ द्रुतमेवैकं ग्रामं प्राप्तौ । तत्र ग्राममध्ये नयनरम्यमेकं गृहं दृष्ट्वा कालिदासस्तदभ्याशे रथमस्थापयत्। रथचक्रस्य ध्वनिं श्रुत्वा तद्गृहस्वामी गृहा बहिरागत्य तौ निरैक्षत । तत 'अज्ञातावेतौ' इति विमृश्याऽपृच्छत्- “आगन्तुकौ! अहं युवां नोपलक्षये, भवन्तौ कौ ? मम च भवद्भ्यां कीहक् सम्बन्ध: ?” तदेङ्गितेन भोजस्याऽऽज्ञां प्राप्य कालिदास इतस्ततो व्यलोकतैकं च बदरीवृक्षं दृष्ट्वोवाच - “ अस्माकं बादरं चक्रं युष्माकं बदरीतरुः। एतस्मात् कारणान्नूनं यूयं वयं वयं यूयम् ॥” एतच्छ्रुत्वाऽतिमुदितो गृहेशस्तौ द्वावपि निजगृहमानीय यथानुरूपं सत्काराद्यकरोत् । तदा भोजराज उवाच - “ सत्यं तव कथनं कालिदास!, बुद्धिचातुर्येण वचोमाधुर्येण चाऽज्ञातोऽपि मित्रायते।” ८ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521001
Book TitleNandanvan Kalpataru 1999 00 SrNo 01
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year1999
Total Pages92
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy