________________
Pres
e
nter
कथा
॥ बादरायणसम्बन्धः ।।
-मुनिकल्याणकीर्तिविजयः
वैक्रमे दशमशताब्दे मालवदेशे न्यायान्यायक्षीरनीरविवेचनहंसः परमविद्वत्तासमलङ्कृत उदारहृदयोऽत्यन्तसज्जनो भोजाभिधानो राजा राज्यं चकार।
तस्य सदसि बहवः पण्डिता आसन् । एतेषु कविप्रकाण्डं श्रीकालिदासोऽशिरोमणीयत । स परहृदयाविद्भिर्महाथैश्च काव्यैर्नृपमनो मोदयमान: तस्य पूर्णप्रीतिभाजनं बभूव। दिनानुदिनं भोजस्य स्नेहो तस्मिन् ववृधे । ततश्च द्वावपि परमसुहत्तां भेजतुः।।
अथ राजा सदैव कालिदासेन सह विजहार, सुभाषितकाव्यादिविनोदेन च समयाकरोति स्म ।
अन्यदा वासन्तदिने श्रीभोजभूपो महाकविना सह वनविहाराय जगाम । सौरभऋतुत्वात् वनराजय: पूर्णतया विकस्वरा आसन्। तौ द्वावपि प्राकृतिक सौन्दर्यस्याऽतीवरसिकौ कालमवज्ञाय रथारूढौ सन्तौ बहुदूरं गतवन्तौ, अस्तमये च ज्ञातवन्तौ यदावां सुदूरमागतौ।
“ यद्यधुना धारां प्रति गच्छेव तयध्वन्येव रात्रिर्भवेत्, तमसि च मार्गोऽपि न विलोक्येते” ति कालिदास उवाच। राजा स्माऽऽह - " किं कर्तव्यमधुना कविवर्य! ?" कालिदासः - “स्वामिन्! अत्राऽन्तिके ग्रामं सम्भावयामि। यत: बुक्कतां शुनां शब्दा: श्रूयन्ते।” इत्यवदत् , “चलतु भवान् , रात्रिं तत्रैव गमयिष्याव:” इत्यन्वरौत्सीच्च।
" किन्तु कविराज! तत्राऽऽवां कस्य गृहे रात्रिवासं करिष्याव: ? तत्राऽस्माकं न कोऽपि जानाती"ति पृष्टम्।
तदा कालिदासोऽवक् - “महाराज! बुद्धिचातुर्येण वाङ्माधुर्येण चाऽज्ञातोऽपि मित्रीक्रियेत ।" “तर्हि रथमग्रे प्रस्थापय । अद्यतनी रात्रिं त्वत्कृतसखगृहे निवत्स्यावः।” इति भोजराजो बभाण।
८०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org