SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ ॥ मधुरेण समापयेत् ॥ 11 को मूर्खः 21 - मुनिरत्नकीर्तिविजयः (एको जनो भृत्यमाह्वयति । आगच्छति च भृत्यः । ) जन: (भृत्यं प्रति ) भो ! एषा मञ्जूषा काचपात्रैर्भृताऽस्ति । एषा च मद्गृहं नेतव्या । किमेतत् कार्यं त्वं करिष्यसि ? भृत्यः आम् करिष्यामि । जनः तर्हि कथय, कियन्मूल्यमेतत्कार्यस्य त्वयाऽभिप्रेतम् ? भृत्यः - यदुचितं ज्ञेयं भवता तद्देयम्। : सुष्ठु । यद्येवं तर्हि शृणु, तव भृत्यकार्यस्य मूल्यं यद्यहं द्रव्यरूपेण दास्ये तर्हि अल्पेनैव कालेन तद् व्ययीभविष्यति । अतोऽहं मार्गदर्शनरूपेण वाक्यत्रिकं तुभ्यं कथयिष्यामि । तत्तु जीवनपर्यन्तं तवोपयोगि भविष्यति । (एतच्छ्रुत्वा ओमित्युक्त्वा मञ्जूषां मस्तकोपरि प्रस्थाप्य भृत्यश्चलितुं प्रवृत्तो ऽभूत् । व्यतीते कियत्यपि काले तेन भृत्येन प्रथमवाक्यार्थं जनः स्मारितः । अत: - ) जन: (भृत्यं प्रति ) शृणु। 'भृतादुदराद् रिक्तमुदरं शोभनम् ।' यद्येवं कोऽपि वदेत् तर्हि तस्यैतद्वृत्तान्ते मा कुरु विश्वासम् । (पुनर्मौनमवलम्ब्य द्वावपि मार्गे चलतः । कियन्मार्गमुल्लङ्घ्य ) जन: अधुना द्वितीयं वाक्यं शृणु । 'अश्वारोहणात् पादाभ्यामेव गमनमुचितम् ' कोऽपि यद्येवं जल्पेत् तर्हि स जनो न विश्वसनीय एवं मन्यस्व । (एवंक्रमेण तावुभावपि गृहद्वारं प्राप्तौ । तदा भृत्येन तृतीयवाक्यार्थमाकाङ्क्षा दर्शिता । ) जन: भो ! मम तृतीयमन्तिमं वाक्यं त्वेतदस्ति, यत् -' त्वत्तोऽधिको मूर्खो भृत्यः कोऽप्यस्मिन्नगरे निवसति ' एवं केनाऽप्युच्यते तदा - तन्मा मन्यस्व । Jain Education International ८२ For Private & Personal Use Only www.jainelibrary.org
SR No.521001
Book TitleNandanvan Kalpataru 1999 00 SrNo 01
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year1999
Total Pages92
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy