SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ इत्याकर्ण्य मस्तकस्थां मञ्जूषां गृहद्वाराग्रभागे उच्चैर्निक्षिप्य भृत्यो जनं प्रति गम्भीरध्वनिनाऽवदन् - भवन्तं प्रति वाक्यमेकमहमपि कथयामि, तच्छृणु 'अस्यां मञ्जूषायामेकमपि काचपात्रमखण्डं वर्तते' इत्येवं यदि कोऽपि वदेत् तर्हि भवता न तद्वचनं स्वीकर्तव्यम् । इति । || पुनरेकशः ॥ -मुनिधर्मकीर्तिविजयः एकदा नवशिक्षितसङ्गीतः कश्चित् कस्मिंश्चिन्नगरे गतः । तत्र नगरखण्डे निजकार्यक्रम आयोजितः। नागरिका: सङ्गीतरसिका: कलामर्मज्ञाश्चाऽऽसन् । __ अत: सर्वे तं श्रोतुं सभां गतवन्तः। कलाकारेण सारङ्गरागे निजगीतगानमारब्धम्। कियद्भिः क्षणैः पूर्णीभूते गीते जनैः सहस्ततालमुच्चैर्निघोष: कृत:-“पुनरेकश: गातव्यं पुनरेकश: !” इति। गायकस्तु लोकशुश्रूषां ज्ञात्वा पुनरपि तस्मिन्नेव रागे गातुं प्रवृत्तः । गानावसाने पुनस्तदेव गातुमुच्चै:कथितं -“पुनरेकश: गातव्यं पुनरेकश: !” इति । एवं द्वि-त्रिवारान् कथितम् । तदाऽऽनन्दित: कलाकार आह - “सज्जना:! अधुना तु मयकै क एव रागः प्रदर्शितः । भवन्तोऽन्यानपि रागान् श्रोतुमर्हन्ति।” तदा लोकैः कथितं-“यावद् भवान् सम्यगरीत्या तद्गीतं न गास्यति तावद् वयं भवता तदेव गापयिष्यामः।” हास्यं निषिद्धम्॥ -मुनिकल्याणकीर्तिविजयः कथाकार: (कथायां) भो लोका: ! ये नरा यादृशं कर्म इह जन्मनि कुर्वन्ति ते परलोके तदनुरूपमवतारं प्राप्नुवन्ति । यथा क्रोधिनो नरा: श्वावतारं, ८३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521001
Book TitleNandanvan Kalpataru 1999 00 SrNo 01
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year1999
Total Pages92
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy