________________
कपटशीलाः शृगालावतारमित्यादि ।
शामजीकुम्भकारः प्रभो! किं मम गर्दभावतारो लप्स्यते ?
कथाकारः उपविश उपविश। एक एवाऽवतारो वारं वारं न प्राप्यते ।
अकब्बरः (भोजनसमये) वीरबल ! वृन्ताकशाकमतीव स्वादु न वा ? वीरबल: अवितथमेतत् स्वामिन्! नानाव्यञ्जनैः संस्कृतं वृन्ताकशाकं विहायाऽस्मिन् जगति न किञ्चिदपि स्वादु ।
(अन्यदा)
अकब्बर: अरे! बेगम ! किं प्रत्यहमेतदेव विरसं वृन्ताक - शाकं भोक्तव्यम् ? वीरबल ! एतच्छाकमत्यन्तविरसं वर्तते न वा
वीरबल: सत्यमुक्तं प्रभो ! भवता । इह लोके वृन्ताकशाकं विना न किमपि विरसमस्ति । अकब्बरः रे वीरबल! तत्र दिने त्वमेवाऽस्य शाकस्य प्रशंसामकरोरद्य पुनस्त्वमेवैनं निन्दसि ? वीरबलः प्रभो! भवदाज्ञाकारी सेवकोऽहं, न तु वृन्ताकस्य ।
(मिथ: प्रतिस्पर्धिनौ द्वौ विद्वांसावेकस्यामतिसङ्कीर्णरथ्यायां मिलितौ, उभावप्यन्योन्यं मार्गं न प्रदत्तः । तदा - )
एक: भो! अहं मूर्खेभ्यो न कदाऽपि मार्गं ददामि । द्वितीयः अहं तु ददामि । ( भवान् गच्छतु ।)
Jain Education International
८४
For Private & Personal Use Only
www.jainelibrary.org