SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ तपनमिति तपः। अष्टप्रकारं कर्मोघं तापयतीति तपः। ताप्यन्ते रसादिधातवोऽनेनेति तपः। अनन्तभवनिकाचितकर्मणो दहनं कर्तुं तप एव समर्थं, नाऽन्यत् किमपि । अन्याभिर्धर्माराधनाभिः पुण्यबन्धो भवति, किन्तु निर्जरा तु तपसैव भवति। श्रीवाचकमुख्येन श्रीतत्त्वार्थाधिगमसूत्रे कथितम् - तपसा निर्जरा च। अत्राऽपि यदि पुण्यबन्धस्पृहया तप: क्रियेत तदा तपसा निर्जरा न भवति, तत्र नि:स्पृहत्वाभावात्। शास्त्रेषु तपो द्विविधमुक्तम् - बाह्यतप: आभ्यन्तरतपश्च। तत्र बाह्यं तपः षड्विधम् - अनशनं, ऊनोदरता, वृत्तिसक्षेपणं, रसत्याग:, कायक्लेश:, संलीनता च। आभ्यन्तरतपोऽपि षड्विधम् - प्रायश्चित्तं, विनयः, वैयावृत्त्यं, स्वाध्यायः, उत्सर्गः, ध्यानं च। ___ अत्र बाह्यतपसा शरीरशुद्धिस्तथाऽऽभ्यन्तरतपसाऽऽत्मिकशुद्धिर्भवति । एतेनाऽऽत्मनो मलिनवासनादिविकारा नश्यन्ति। एतद् धर्मस्य स्वरूपम्। अथ धर्मस्य माहात्म्यं किम् ? ये उपरि वर्णितं धर्ममाराधयन्ति तेषां जीवने कदाऽपि जरा-मरण-शोक-क्लेशाद्युपद्रवा न प्रविशन्ति। सदा तेषां जीवने कल्याणपरम्परैव प्रसरति। तथा एतादृशान् धर्माराधकानात्मनो देवा अपि नमस्कारं कुर्वन्ति, स्तुवन्ति। तत आत्महितकाङ्गिभिराराधकैरेतादृशो विशुद्धो धर्म आराधनीयः, इति मे मतिः। ६८ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521001
Book TitleNandanvan Kalpataru 1999 00 SrNo 01
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year1999
Total Pages92
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy