________________
एतादृशहिंसातो निवृत्तिरेवाऽहिंसा इति कथ्यते। यतनाऽहिंसा। जिनाज्ञापालनमहिंसा। उपयोगोऽहिंसा। अप्रमादोऽहिंसा। यदि कस्मिन्नपि प्रवृत्तिकाले मनसि-हृदये यतनाभावो वर्तेत तर्हि कर्म-बन्धो न भवेत्। सार्धशतगाथात्मकस्तवने वाचकश्रीयशोविजयोऽप्याहयतनाभावे न कर्मबन्धः।
एवं यतनावानात्मा हिंसापकै मलिनो भवति । यतनारहिता शुद्धप्रवृत्तिरपि शून्यफला वन्ध्योपमा च कथिता।
यतना पापनाशिका। यतना मोक्षमार्गसाधनी। यतना सजनसहचरी। संयमिन आत्मान एवैतादृश्या यतनाया: पालनं कर्तुं समर्था भवन्ति। ततो ग्रन्थकारेणाऽहिंसाया पश्चाद् द्वितीयो भेद: संयमो वर्णितः। सम्यक् प्रकारेणेन्द्रियादीनां दमनं - नियमनं संयमः। चित्ते वर्तमानानामशुभवृत्तीनां निरोध: संयमः।
अपेक्षया संयम: संवरतत्त्वस्यैवभेदोऽस्ति। ततोऽभिनवकर्मणां रोधनमपि संयमः। स संयम: सप्तदशविधोऽस्ति।
प्राणातिपात-मृषावाद-अदत्तादान-मैथुन-परिग्रहस्वरूपाश्रवाद्विरमणं, पञ्चानामिन्द्रियाणां निग्रहः, कषायचतुष्कविजय: , मनोदण्ड - वचनदण्ड - कायदण्डेभ्यो विरतिः।
यत्राऽहिंसा संयमश्च तत्र तपोऽस्त्येव, एतेषां परस्परमविनाभावित्वात् । ततस्तृतीये भेदे तप: कथितम्।
૨. કર્મબંધ નહીં જયણાભાવે, ઢાળ૪-૭દોઢસોગાથાનું સ્તવના
६७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org