________________
क्रीडाभू: सुकृतस्य दुष्कृतरज: संहारवात्या भवो
दन्वन्नौर्व्यसनाग्निमेघपटली सङ्केतदूती श्रियाम् । निःश्रेणिस्त्रिदिवौकस: प्रियसखी मुक्ते: कुगत्यर्गला
__ सत्त्वेषु क्रियतां कृपैव भवतु क्लेशैरशेषैः परैः ।। अहिंसाया वास्तविकं स्वरूपं ज्ञातुं हिंसाया: स्वरूपं ज्ञातव्यम्। ततो हिंसा का ? पूर्वधरश्रीउमास्वातिवाचकमुख्येन तत्त्वार्थाधिगमसूत्रे प्ररूपितम् - “प्रमत्तयोगात् प्राणव्यपरोपणं हिंसा।"
जीवानां प्राणेभ्यो वियोगो हिंसा , अथवा त्रस-स्थावरजीवानां हननं हिंसा। हिंसाया एतत् स्थूलस्वरूपं तु सर्वे जानन्ति, किन्तु हिंसाया: सूक्ष्म-स्वरूपमतिगहनम् । एतदपि विमर्शनीयम् ।
मनसाऽपि केषामपि जीवानामशुभचिन्तनं हिंसा। सूक्ष्मजीवान् प्रति दुर्भावो हिंसा। जीवानामनादरो हिंसा। अयतना हिंसा। जिनाज्ञाभङ्गो हिंसा। अनुपयोगो हिंसा। प्रमादो हिंसा। आश्रवो हिंसा। जिनशासनाराधनास्तम्भनिभश्रीईर्यापथिकीसूत्रे दशभिः प्रकारैः हिंसाया: सूक्ष्मस्वरूपं वर्णितमस्ति। हिंसाया एतादृशं स्वरूपवर्णनं जिनशासनं विना कुत्राऽपि न सम्भवति।
अस्माकं सर्वेषां जीवनेऽहिंसाया: प्रमाणं प्रचुरमस्ति । वयं सदा धर्माराधना: कुर्मः, किन्त्वनुपयोगेन। अनुपयोगस्तु हिंसा, ततोऽस्माभिर्यो धर्मः क्रियते स न विशुद्धः कथ्यते, तत्र हिंसासत्त्वात्।
६६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org