________________
ई आस्याहुः
॥सर्वं सत्त्वे प्रतिष्ठितम् ।।
-मुनिकल्याणकीर्तिविजयः सत्त्वैकतानवृत्तीनां प्रतिज्ञातार्थकारिणां।
प्रभविष्णुर्न देवोऽपि किं पुन: प्राकृतो जनः ।। अन्वयः - सत्त्वैकतानवृत्तीनां प्रतिज्ञार्थकारिणां देवोऽपि न प्रभविष्णु:, किं पुन: प्राकृतो जन: ?
विवरणम् - सत्त्व एव एकनिष्ठतया प्रतिष्ठिता वृत्तिर्येषां धीरपुरुषाणां तेषामस्मिन् जगति नाऽस्ति किमप्यसाध्यम्। अतो यदा ते धीरा: स्वमनसि किञ्चिदपि कार्यं स्वकर्तव्यतयाऽङ्गीकुर्वन्ति तदा तन्निर्वाहे आपतन्तं किमपि कष्टं न गणयन्ति, यावत् प्राणत्यागेऽपि कार्यान्तं प्राप्नुवन्ति । स्वकार्ये दृढतया प्रवर्तमानानेतादृशान् सात्त्विकप्रकृतीन् धीरान् चालयितुं, स्वकीयसामर्थ्येन त्रिजगतीमपि चालयितुं क्षमा अचिन्त्यशक्तियुक्ता देवा अपि यदि प्रवर्तन्ते कदाचित् , तदा ते न प्रभवन्ति, न शक्तिमन्तो भवन्ति । यत्र देवा अप्यशक्तास्तत्र , स्वकार्येऽप्यन्यसहायापेक्षिण: सामान्यजनाः किं कदाचिदपि समर्था भवन्ति ? नैव भवन्ति।
यदेकदा सत्त्वमूर्त्तिर्विक्रमो राजकुमारावस्थायां देशान्तराणि भ्रामं भ्राममवन्तीपुरी प्राप। नगरपरिसरं प्राप्तेन तेन पटुपटहध्वनिराकर्णितः। ततस्तेन पटहवादकाय तत्कारणे पृष्टे तेन कथितं - “योऽस्य नगरस्य राजा भवितुमिच्छति स पटहं स्पृशतु।” एतच्छ्रुत्वा सत्वरं तेन पटह: स्पृष्टः । ततश्च ज्ञातव्यतिकरै राजपुरुषैर्नृपसौधं नीत्वा तत्क्षणमेव सोऽभिषिक्त: कथितश्च - “अस्य राज्यस्य वैरी कोऽपि सुरोऽसुरो वाऽस्ति । स च सर्वदैवाऽस्मभ्यं कुपितः, य एवाऽस्य राज्यस्य राजा भवति तं निहन्ति । यदि राजा न भवति तदा देशनाशं करोति। अतो यदि भवान् कमप्युपायं कर्तुं शक्तस्तदा कुरु यद्वा यमातिथीभव।”
एतन्निशम्याऽतीवमेधाविना तेन नूतनराजेन चिन्तितं - 'अयं सुरोऽसुरो वा मया भक्त्या शक्त्या वा प्रसादनीयः। अत: प्रथमं भक्तिं कृत्वा तमनुनेतुं प्रयते । यदि स प्रसन्नस्तदा सिद्धं मे
६९
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org