Book Title: Nandanvan Kalpataru 1999 00 SrNo 01
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 78
________________ पातितः। ततस्तस्य हृदि चरणमारोप्याऽसिधारया स्पृष्ट्वाऽऽदिष्टवान् - “रे वेतालपांसन! तवेष्टदैवतं स्मर। अधुना तव प्राणान् हरिष्यामि।” एतन्निशम्य चकितेन वेतालेनोक्तं -“ अहो सत्त्वमूर्ते! तवाऽनेनाऽद्भुतसाहसेनाऽतीवतुष्टोऽहमग्निवेतालनामा प्रेतराजस्ते सिद्धः।” एवं सत्त्वशालिनस्तस्य राज्यं निष्कण्टकमजनि। अत एवोक्तमपि - “सत्त्वं जीवनतत्त्वं व्यर्थं तेन विनाऽपि श्रीमत्त्वम् । धीमत्त्वं बलवत्त्वं तदेवाऽनुसरति स्वत्वमपि॥" Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92