________________
पातितः। ततस्तस्य हृदि चरणमारोप्याऽसिधारया स्पृष्ट्वाऽऽदिष्टवान् -
“रे वेतालपांसन! तवेष्टदैवतं स्मर। अधुना तव प्राणान् हरिष्यामि।” एतन्निशम्य चकितेन वेतालेनोक्तं -“ अहो सत्त्वमूर्ते! तवाऽनेनाऽद्भुतसाहसेनाऽतीवतुष्टोऽहमग्निवेतालनामा प्रेतराजस्ते सिद्धः।”
एवं सत्त्वशालिनस्तस्य राज्यं निष्कण्टकमजनि। अत एवोक्तमपि -
“सत्त्वं जीवनतत्त्वं व्यर्थं तेन विनाऽपि श्रीमत्त्वम् । धीमत्त्वं बलवत्त्वं तदेवाऽनुसरति स्वत्वमपि॥"
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org