Book Title: Nandanvan Kalpataru 1999 00 SrNo 01
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
|| धर्मस्वरूपम् ।।
आस्वादः
-मुनिधर्मकीर्तिविजयः धम्मो मंगलमुक्किटुं अहिंसा संजमो तवो।
देवा वि तं नमसंति जस्स धम्मे सया मणो ।। छाया- (धर्मो मङ्गलमुत्कृष्टमहिंसा संयमस्तपः।
देवा: अपि तं नमस्यन्ति यस्य धर्मे सदा मनः॥) पदार्थ: - अस्मिन् जगति धर्म एवोत्कृष्टं मङ्गलमस्ति । स धर्म: त्रिधा भवति-अहिंसा संयम: तपश्च । सदा-सर्वदा, यस्य मनो धर्मे रममाणं स्यात् , तं देवा अपि नमस्कारं कुर्वन्ति। _ विवरणम् - जैनसङ्घ, विशेषत: श्रमणसमुदाये श्रीदशवैकालिकसूत्रस्योपलब्धि: कल्याणरूपाऽस्ति। वर्तमानकाले महामङ्गलकारि श्रीदशवैकालिकसूत्रमेव विशुद्धाराधनयाऽल्पेनैव कालेन परमपदप्राप्तावमोघं साधनमस्ति।
पूर्वधरमहात्मा श्रीशय्यंभवसूरीश्वर: श्रीदशवैकालिकसूत्रमारभमाणो द्वौ पदार्थों निरूपयति, धर्मस्य स्वरूपं धर्मस्य माहात्म्यं च।
तत्र, धर्मस्य स्वरूपं किम् ?
ग्रन्थकारेण विशुद्धधर्मस्त्रिविध उक्तः । अहिंसा संयमस्तपश्च । यत्र एतत्त्रिकं तत्र धर्मोऽस्त्येव। गौण- मुख्यभावेनैतेषां त्रयाणां साहचर्यमस्ति , अविनाभावित्वात् । कुत्रचिदहिंसाया:, कदाचित् संयमस्य, कथञ्चित् तपसश्च प्राधान्यं तु भवत्येव।
अस्मिन् श्लोके वर्णिता: त्रयो भेदा आभ्यन्तरधर्मं प्रतिगत्यर्थं धर्महेतवः सन्ति। तत्र प्रथमा अहिंसा। सम्यग्ज्ञानश्रद्धानपूर्विका प्राणिवधात् निवृत्तिरेवाऽहिंसा । अहिंसा धर्मस्य मूलमस्ति । सर्वभूतानां दया एव महाधर्मः । प्रभूतैः कष्टदायिभिरनुष्ठानैरलं, यदि तत्राऽहिंसाधर्मो नाऽस्ति।
श्रीसोमप्रभसूरिणा सिन्दूरप्रकरे कथितम् -
६५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92