Book Title: Nandanvan Kalpataru 1999 00 SrNo 01
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 61
________________ - द्रुतमेवाऽहमदाबादनगरेऽन्यत्र च सर्वत्रैष: समाचार: प्रेषितः । तं प्राप्य शोकाकुलहृदया: श्रावका अहमदाबाद-बोटाद-बरवाळा-वलभ्यादिनगरेभ्य: सत्वरं तगडीग्रामंप्राप्ताः। रात्रौ सर्वैरपि सम्मिल्य पूज्यवर्याणां नश्वरदेहं तजन्मभूमि बोटादनगरं नेतुं निर्णीतम् । ततः फुलचन्दभाईआदिश्रावकै- र्गृहस्थोचितमन्तिमविधिं कृत्वा तच्छरीरं सम्यग्रीत्या दोलायां स्थापितम्। द्वितीयदिने प्रात:सार्धचतुर्वादने चतुर्भिर्मुनिभिस्त्रिभिश्च गृहस्थैः सह द्वौ दोलावाहको दोलामुत्पाट्य बोटादं प्रति प्रस्थितौ । मध्याह्नसमये बोटादमागत्य सर्वजनदर्शनार्थमुपाश्रये तद्देह: स्थापितः । इतो बोटादनगरेऽपिसहस्रशोजना मिलिता:। अन्यस्थलेभ्योऽपिप्रायो जनानां सहस्रपञ्चविंशतिरागता। अपराह्ने त्रिवादने भव्यशिबिकायां गुरुभगवतां देहं प्रस्थाप्याऽन्तिममहायात्रा निर्गता। अखिलनगरं परिभ्रम्य सार्धपञ्चवादने जिनालयपुर: (यत्राऽधुना श्रीनेमि-उदय-नन्दनविहारनामोपाश्रयो विद्यते तत्र) तेषां संसारिभ्रातृजेन श्रीजयन्तीभाई-इत्यनेनाऽश्रुपूर्णनेत्रेषु जनसहस्रेषु पश्यत्सु तद्देहस्याऽग्निसंस्कार: कृतः। अगम्यः खलु प्रकृते: क्रमः । पूज्यवर्याणां संसारी पिता श्रीहेमचन्दश्रेष्ठी ज्येष्ठभ्राता हरगोविन्ददासश्चाऽष्टसप्ततितमे वर्षे दिवङ्गतौ। स्वयमपितुल्यवर्षे कालधर्मं प्राप्ताः। सूरिसम्राजो वैक्रमीयाब्दस्याऽन्तिमे दिने स्वर्गताः। तदग्निसंस्कारस्तु वैक्रमीयनववर्षस्य प्रथमदिने कृतः। एते तु ऐसवीय-वर्षस्याऽन्तिमे दिने स्वर्गवासं प्राप्ताः, अग्निसंस्कारस्तु नववर्षस्य प्रथमे दिने कृतः। कः खल्वेतादृशान् रहस्यान् शोधयेत् ? अथ मदीयं किञ्चित्। यद्यप्यौदारिक-मानसाध्यात्मिकदेहेन तेषां पवित्रसान्निध्यं पुण्यनिश्रा च निर्भागधेयावतंसेन मया नैव प्राप्ते,तथाऽपि तद्विनिर्मितेन मदीयगुरुभगवद्प-निजप्रतिकृतिना जीवच्छिल्पदेहेन शब्ददेहेन च तेषां प्रसादपूर्णं सान्निध्यं कल्याणकरी च निश्रां धन्यंमन्योऽहं सदैवाऽनुभवामि। प्रान्ते, निर्दम्भसरलता-पवित्रसाधुतास्वामिनां गुरुवर्याणां कृपाप्रसादेन तदीयगुणरत्नाकराद् गुणलवोऽपि मदीयजीवने प्रकटीभवेत् तद्बलेन च दुर्गुणानां तमो दूरीकुर्यामित्यभ्यर्थयामि। ५४ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92