Book Title: Nandanvan Kalpataru 1999 00 SrNo 01
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 55
________________ परधर्मसहिष्णुतया च विस्तृता। अनया परिणतसहिष्णुतया ते पातञ्जलयोगदर्शन-भगवद्गीतामनुस्मृत्यादीनां सिद्धान्तैः सह जैनसिद्धान्तानां समन्वयं कृत्वा स्वप्रवचनं व्याख्यातवन्तः । वेदान्तस्याऽपि गहनाभ्यासित्वात् ते द्वैताद्वैतविषयं तत्त्वज्ञानं तज्ज्ञैरन्यधर्मिभिश्च सरसंचर्चितवन्तः । शैवादीनामितरधर्मिणां धर्मकार्याणि श्रुत्वा प्रसन्नीभूतास्ते तान् सर्वदा प्राशंसन् यद् - 'इयतांशेना-ऽपि तेषु धर्मभावना विद्यते । यद्यपि तेऽजैनास्तथाऽपि ते धर्मभावनयैव निजधर्मकार्यं कुर्वन्ति । अनया धर्मभावनयैवाऽस्माकं संस्कृति सर्वदा विजयवती वर्तते।' आत्मीयत्वं सहृदयत्वं च तत्स्वभावेऽभिन्नाङ्गायेते स्म । आत्मीयत्वात् तेषां द्वेषिणोऽपि भक्तायन्ते स्म, सहृदयत्वाच्च विद्वांस: सजना लोकविख्याताश्च जनास्तानादरयन्। तेषां विशालहृदयगुहाया वात्सल्यामृतनिर्झरं सदैवाऽवहत् । संसारक्लेशदग्धा जीवास्तदन्तिक-मागत्य चित्तशान्तिमनुभूतवन्तो वात्सल्यामृतपानंच कृत्वा धन्यंमन्याश्चाऽभवन् । कदाऽपि पङ्क्ति-भेदमकृत्वा तैर्निर्झरवत् सर्वान् धनिकनिर्धनान् सामान्यप्रसिद्धांश्च जनानविशेष स्ववात्सल्यसुधापानं कारितं, यावन् मार्गच्युता: पतिता वाऽपि तै: स्ववात्सल्यसिन्धौ स्नापिता: पुनरपि च मार्गस्थीकृताः। एतेन शिष्टेषु 'यस्य कोऽपि नाऽस्ति तस्य श्रीनन्दनसूरि: ' इत्युक्तिः प्रासिध्यत् । अनेन निर्व्याजेन नि:स्वार्थेन च वात्सल्येन ते स्वसमयेऽजातशत्रूभूता आसन् । जनसामान्येष्वपि तान् प्रत्येषा पूर्णश्रद्धा आसीत् यत् - 'श्रीनन्दनसूरिमहाराजानामाशीर्वादेनाऽस्माकं जीवनं शान्तिमयं भवेत् ।' अनयैव श्रद्धया प्रभूता जना: प्रत्यहं तान् वन्दितुं तदाशिषं च लब्धुमागच्छन् । तेऽपि प्रसन्नहृदयेन वासक्षेप- मङ्गलोच्चरण-सूरिसम्राड्नामोच्चरणपूर्वं सर्वेभ्य आशिषमददन् । तेभ्यो बालका अतीव प्रिया आसन् । अतो बहुशस्तेऽपारवात्सल्येन बालकै: सहाऽऽनन्दं कुर्वन्तो व्यलोक्यन्त । तेषां व्याख्यानमपि मैत्र्यादिभावनाभावितं विश्ववात्सल्यवासितं चाऽऽसीत् । निर्बन्ध-वस्तुलक्षिगुणानुरागितया ते यत्र तत्र सर्वत्र विख्याति प्रापन् । स्वपरसमुदायगच्छस्थानां साधुसाध्वीनां सत्कार्याणि सदनुष्ठानानि च ते हृदयपूर्वकमन्वमोदन्त। श्रावकाणां गृहस्थानां चाऽप्युचितप्रवृत्तिं ते सदा प्राशंसन्। निष्पक्षता तेषां गुणेषु मूर्धायते। सकलसङ्घहितार्थं ते स्व-पर-पक्षमवगणय्य तटस्थवृत्त्यैव ४८ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92