Book Title: Nandanvan Kalpataru 1999 00 SrNo 01
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
ततश्च पूज्यसूरिसम्राजां संस्कृतवाङ्मयाचार्यश्रीशशिनाथझाभिधपण्डितवरेण्यस्य च समीपेऽधीयानेन मुनिनन्दनविजयेन व्याकरण-न्याय-वैशेषिक- मीमांसा-साङ्ख्य-वेदान्तपातञ्जलादिदर्शनानां जैनदर्शनस्य च नैके मूर्धन्यग्रन्था अधीताः।
तत्र केषाञ्चिन्नामान्येतानि - न्याय-वैशेषिकयो: - तर्कसङ्ग्रहः, दिनकरी-रामरुद्रीसंवलिता सिद्धान्तमुक्तावली, व्याप्तिपञ्चकं, सिंहव्याघ्रलक्षणं, सिद्धान्तलक्षणं, अवच्छेदकत्वनिरुक्ति :, सव्यभिचारप्रकरणं, प्रशस्तपादभाष्यं, न्यायकुसुमाञ्जलि:, लक्षणावली, आत्मतत्त्वविवेक इत्याद्याः;
वेदान्ते - पञ्चदशी, वेदान्तपरिभाषा-शिखामणि:, अद्वैतसिद्धिः;
साङ्खये - साङ् ख्यकारिका, तत्त्वकौमुदी, लौगाक्षिभास्करकृतः अर्थसङ् ग्रह:, पातञ्जलयोग-सूत्रवृत्तिः, श्रीहर्षविरचितं खण्डखण्डनखाद्यं;
व्याकरणे - सारस्वतव्याकरणं, सिद्धहैमव्याकरणं, नागेशभट्टस्य मञ्जूषा; साहित्य - साहित्यदर्पणं, कुवलयानन्दादयः; काव्ये - रघुवंश-किराताद्या:;
जैनदर्शने - जैनतर्कभाषा, स्याद्वादमञ्जरी, प्रमाणनयतत्त्वालोकः, अष्टकप्रकरणं, न्यायालोकः, सप्तभङ्गीतरङ्गिणी, अष्टसहस्री, सन्मतितर्कः, षड्दर्शनसमुच्चयः, न्यायखण्डखाद्य इत्याद्या अनेके मूर्धन्या ग्रन्थाः।
एतेष्वपि केचिदेव पण्डितवर्यान्तिकेऽधीता: । अन्ये तु स्वयमेव पठिता:। सिद्धान्तमुक्तावली, सारस्वतचन्द्रिका च साद्यन्तं कण्ठस्थीकृता।
अन्यच्चैतान् ग्रन्थान् पठता ग्रन्थस्य ग्रन्थान्तरंटीके'ति न्यायात् तत्सदृशविषया अन्येऽपि बहवो ग्रन्था अवगाहिताः। यथा साहित्यदर्पणं पठता रसगङ्गाधर-काव्यप्रकाशाद्या महाग्रन्था अवगाहिताः।
दर्शनविषयकग्रन्थान् पठता तेन कर्मसाहित्यस्याऽऽगमसाहित्यस्याऽपि गभीरमध्ययनं कृतम् । तत्र चत्वारो नव्यकर्मग्रन्था: सटीका: श्रावकपण्डितवर्यश्रीहीरालालपार्श्वेऽधीता:। अन्यत् सर्वमपिप्राचीनं नव्यं च कर्मसाहित्यं स्वयमेवाऽधीतम्। कर्मप्रकृति(कम्मपयडी)स्तु ग्रामानुग्राम
४३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92