SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ ततश्च पूज्यसूरिसम्राजां संस्कृतवाङ्मयाचार्यश्रीशशिनाथझाभिधपण्डितवरेण्यस्य च समीपेऽधीयानेन मुनिनन्दनविजयेन व्याकरण-न्याय-वैशेषिक- मीमांसा-साङ्ख्य-वेदान्तपातञ्जलादिदर्शनानां जैनदर्शनस्य च नैके मूर्धन्यग्रन्था अधीताः। तत्र केषाञ्चिन्नामान्येतानि - न्याय-वैशेषिकयो: - तर्कसङ्ग्रहः, दिनकरी-रामरुद्रीसंवलिता सिद्धान्तमुक्तावली, व्याप्तिपञ्चकं, सिंहव्याघ्रलक्षणं, सिद्धान्तलक्षणं, अवच्छेदकत्वनिरुक्ति :, सव्यभिचारप्रकरणं, प्रशस्तपादभाष्यं, न्यायकुसुमाञ्जलि:, लक्षणावली, आत्मतत्त्वविवेक इत्याद्याः; वेदान्ते - पञ्चदशी, वेदान्तपरिभाषा-शिखामणि:, अद्वैतसिद्धिः; साङ्खये - साङ् ख्यकारिका, तत्त्वकौमुदी, लौगाक्षिभास्करकृतः अर्थसङ् ग्रह:, पातञ्जलयोग-सूत्रवृत्तिः, श्रीहर्षविरचितं खण्डखण्डनखाद्यं; व्याकरणे - सारस्वतव्याकरणं, सिद्धहैमव्याकरणं, नागेशभट्टस्य मञ्जूषा; साहित्य - साहित्यदर्पणं, कुवलयानन्दादयः; काव्ये - रघुवंश-किराताद्या:; जैनदर्शने - जैनतर्कभाषा, स्याद्वादमञ्जरी, प्रमाणनयतत्त्वालोकः, अष्टकप्रकरणं, न्यायालोकः, सप्तभङ्गीतरङ्गिणी, अष्टसहस्री, सन्मतितर्कः, षड्दर्शनसमुच्चयः, न्यायखण्डखाद्य इत्याद्या अनेके मूर्धन्या ग्रन्थाः। एतेष्वपि केचिदेव पण्डितवर्यान्तिकेऽधीता: । अन्ये तु स्वयमेव पठिता:। सिद्धान्तमुक्तावली, सारस्वतचन्द्रिका च साद्यन्तं कण्ठस्थीकृता। अन्यच्चैतान् ग्रन्थान् पठता ग्रन्थस्य ग्रन्थान्तरंटीके'ति न्यायात् तत्सदृशविषया अन्येऽपि बहवो ग्रन्था अवगाहिताः। यथा साहित्यदर्पणं पठता रसगङ्गाधर-काव्यप्रकाशाद्या महाग्रन्था अवगाहिताः। दर्शनविषयकग्रन्थान् पठता तेन कर्मसाहित्यस्याऽऽगमसाहित्यस्याऽपि गभीरमध्ययनं कृतम् । तत्र चत्वारो नव्यकर्मग्रन्था: सटीका: श्रावकपण्डितवर्यश्रीहीरालालपार्श्वेऽधीता:। अन्यत् सर्वमपिप्राचीनं नव्यं च कर्मसाहित्यं स्वयमेवाऽधीतम्। कर्मप्रकृति(कम्मपयडी)स्तु ग्रामानुग्राम ४३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521001
Book TitleNandanvan Kalpataru 1999 00 SrNo 01
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year1999
Total Pages92
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy