________________
सिंहतया विश्रुतोऽस्मि । मत्पुत्रेण च त्वया दीक्षा गृहीता। अतस्त्वं सिंहपुत्रायमाण: सिंहवद्दीक्षां पालयेति मेऽभिलाषः।”
तदाकर्ण्य प्रसन्नहृदयेन मुनिनन्दनविजयेनाऽपि सानन्दं तदाशीर्वचोऽङ्गीकृतम्।
तदनु मुनिनन्दनविजयो बहिर्वज्रायमाणानामप्यन्त: शिरीषकुसुमायमानानां भीमकान्तहृदां परमगुरुश्रीसूरिसम्राजां पावनसान्निध्ये स्वयंस्फूर्त्या च गभीराध्ययने, चारुचारित्रपालने, सुयोग्यतपसि, गुरुसेवायां, विनयादिगुणसाधने चाऽप्रमत्ततया प्रावर्त्तत । तीव्रमेधाबलेन व्याकरणन्याय-जैनसिद्धान्तादीनां प्राथमिकं ज्ञानं शीघ्रं लब्ध्वा तद्वर्ष एव संस्कृत-प्राकृतग्रन्थास्तेन स्वयमेव पठितुमारब्धाः ।
वैक्रमीये सोम-ऋषि-निधि-एकमिते (१९७१) वर्षे सूरिसम्राड्भिर्जावालनगरे वैक्रमीये युग्म-मुनि-निधीन्दु-मिते (१९७२) वर्षे च सादडीग्रामे चतुर्मासी गमिता। तत्र निजदीक्षायास्तृतीय एव वर्षे स्वीयाप्रतिमप्रतिभा प्रकाशयता तेन तीर्थकर-गणधर-गुरुवर्यादीनां स्तुतिमयो नानाच्छन्दोनिबद्धः स्तोत्रभानुनामग्रन्थो रचयित्वा सूरिसम्राजां करकमलयोः समर्पितः। तं दृष्ट्वाऽतीवप्रसन्नैः सूरिसम्राभिः सत्वरं स ग्रन्थ: श्रीजैनप्रकाशकसभाद्वारा मुद्रणं प्रापितः।
अन्यदा वैक्रमीयसोम-ऋषि-निधि-भुवनमिते (१९७३) वर्षे फलवृद्धि-नगरे चतुर्मास्यां गुरुभगवद्भिः पृष्टं - “नन्दन! किं त्वं प्रवचनं करिष्यसि ?” ___ “अवश्यं प्रभो! किन्तु किं व्याख्यायाम् ? ” इति निर्भीकशेखरेण तेन निर्दोषतया पृष्टे, पूज्यैरपि लक्ष्मीवल्लभीवृत्त्यलङ्कृतमुत्तराध्ययनसूत्रं व्याख्यातुमादिष्टम्। तेनाऽपि तथे'ति स्वीकृत्य पञ्चदश दिवसान् तदुपरि प्रवचनं कृतम् ।
तत्रैव वर्षे पयुर्षणायां “नन्दन! कल्पसूत्रस्य कतमं क्षणं व्याख्यास्यसी” ति पृष्टे तेन “प्रभो! प्रथमं क्षणं” इत्युक्तम् । तदा, सदा स्वयमेव प्रथमं क्षणं वाचयद्भिरपि तदुत्साहं दृष्ट्वा प्रसन्नचित्तैः सूरिसम्राभिनन्दनविजयेन प्रथमः क्षणो व्याख्यापितः।
एवं तस्याऽनन्योत्साहं, विनयान्वितामध्ययननिष्ठां, विवेकपूतमाचरणं निर्व्याजं च गुरुसमर्पणं दृष्ट्वा मुदितमानसैर्गुरुभगवद्भिश्चिन्तितं यद् -“अयं मे सुयोग्य: शिष्यः, अत एनं सत्वरं पाठयित्वा जिनशासनधुरीणं करोमि।”
४२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org