Book Title: Nandanvan Kalpataru 1999 00 SrNo 01
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 43
________________ अद्य समस्तं नगरं चित्रपताकाभिश्चारुतोरणैश्च शोभितमस्ति । राजमार्गा रथ्याश्च सम्यक् सम्माय॑ स्वच्छीकृता: सन्ति । दूरात् पटुपटहसहितस्य मङ्गलतूर्यस्य श्रुतिमधुरो ध्वनिः श्रूयते। किमर्थमेतत् सर्वम् ? अरे! अद्याऽखण्डब्रह्मतेजोदेदीप्यमानानां सूरिसम्राजामाचार्यश्रीविजयनेमिसूरीश्वराणां नगरप्रवेशोऽस्ति । अतस्तत्स्वागतं कर्तुकामैः पूर्वासिभिरत्युत्साहेन नगरं सुशोभितं कृतमस्ति। सुन्दरोज्ज्वलनेपथ्या: सर्वेनागरा गुरुभगवत: पुरस्कर्तुं नगराबहिर्गतवन्तः। बधिरितदिगन्तेन जयजयशब्देन गुरुभगवतां स्वागतं कृत्वा तेषामग्रेसरत्वे सर्वे नगरस्थोपाश्रयं प्रति प्रस्थिताः। प्रतिगृहं श्रावक-श्राविका गुरुभगवतां पुरो गोधूमावलिं कृत्वा तान् विधिपूर्वं वन्दित्वा मुक्ताक्षतादिभिश्च वर्धापयन्ति स्म । ततश्च समुद्रगभीररवेण मङ्गलश्लोकं पठित्वा धर्मलाभाशिषं दत्त्वा च गुरवोऽग्रे प्रतिष्ठन्ते। इत्येवंविधां भव्यस्वागतयात्रां दृष्ट्वा तत्रस्थेनैकेन दशवर्षीयबालकेन विस्मयमुग्धकल्पनया स्वमनसि चिन्तितं यद् -“यद्यहमपि दीक्षां गृहीत्वाऽऽचार्योऽभविष्यस्तदा ममाऽप्येवंरीत्यैव स्वागतं बहुमानादिकं च भविष्यति । अतोऽहमपि दीक्षां ग्रहीष्यामि ।” अनेन चिन्तनेन तच्चित्ते य: संस्कार उद्बुद्धस्तत्संस्कारबलेनैवस बालोऽग्रे दीक्षां गृहीत्वा ततश्चाऽऽचार्टीभूयाऽस्माकं समस्तश्रीसङ्घस्योदारचरितोनायकोऽप्यभवत्। का सा पू:? कः स बाल:? कथं तेन दीक्षा गृहीता ? कथङ्कारं च स आचार्गीभूय श्रीसङ्घनायकोऽभवत् ? एतान् विकल्पान् शमयितुं पठतैतच्चरित्रम्। ___ अस्ति किल सौराष्ट्रदेशमण्डनं विश्रुतराष्ट्रकविश्रीझवेरचन्द्रमेघाणी-कविप्रकाण्डश्रीबोटादकरादिकवीनामाकरं शौर्यौदार्यादिगुणालङ्कृतैर्धामिकैर्नीतिनिपुणैश्च जनैर्व्याप्तं बोटादइतिनामकं नगरम्। तत्रस्वकीयधैर्यौदार्य-शौर्य-नय-सन्तोषादिगुणैः समग्रनगरे सिंहतया विश्रुत: श्रीहेमचन्दनामा वणिक्श्रेष्ठी वसति स्म । स कार्पासतूलिका-व्यापारेण यथाऋतु चाऽन्यद्रव्यव्यवहारेण Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92