Book Title: Nandanvan Kalpataru 1999 00 SrNo 01
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 42
________________ - चरित्र कथा वात्सल्यनिधिः सङ्कनायकः -मुनिकल्याणकीर्तिविजयः सुज्ञाः प्राज्ञा:! सहृदयाश्च सुहृदः! अद्य, जिनशासने निजगुरुचरणयोश्च स्वजीवनस्य प्रत्येक क्षणं समर्प्य श्रमणसङ्घक्याय देव-गुरु-धर्मस्वरूपश्रीजिनशासनोन्नत्यै च सर्वप्रकारैराजीवनं प्रयतमानानां, विनश्वरदेहं परित्यज्य दिवङ्गतानामपि निजासङ्ख्यगुणदेहेन सज्जनानां हृदये चिरंजीवतां, पूर्वपर्वतायमाने तपागच्छाधिपति-सूरिचक्रचक्रवर्ति-शासनसम्राडाशैशवशीलशालि-आचार्यमहाराजाधिराजश्रीविजयने मिसूरीश्वरपट्टे मार्तण्डायमानानामपि वात्सल्यामृतनिधीनां पूज्याचार्यश्रीविजयनन्दनसूरीश्वराणां जीवनं शब्दस्थयितुमुद्यतोऽहम्। यद्यपि तदसङ्ख्यगुणान् वर्णयितुकामस्य ममाऽयं प्रयत्न: मेयपट्टिकां गृहीत्वा हिमगिरि मातुकामस्येव जलगण्डूषैश्च सरित्पतिं पूरयितुकामस्येव भवतामुपहासास्पदं भवेत् । किञ्च निर्भाग्यशेखरायमाणेन मयैतत्पुण्यपुरुषदर्शनेन न पवित्रीकृते नेत्रे न कदाऽपि च तत्पादाम्बुजसेवया सफलीकृतोऽयं मनुजदेहः, तथाऽपि तेषां जीवनस्याऽन्तिमदशवर्षा णि तच्चरणेन्दीवरयो ङ्गायितानां गुणैस्तत्प्रतिच्छायायितानां तैश्च स्वयमेवाऽध्यापितानां मदर्थं तु साक्षान्नन्दनसूरीयमाणानां मम पूज्यगुरुभगवतामाचार्यवर्यश्रीविजयशीलचन्द्रसूरीश्वराणां कृपामृतकू पात् प्राप्ते नै तत्सद्भूत-गुणामृतरसेन लब्धं श्रोत्रयोः साफल्यं, तल्लिखितश्रीविजयनन्दनसूरिचरितस्य पठनेन मननेन च नेत्र-मनांसि पवित्रितानि। अतस्तद्बलेनैव धा_मालम्ब्यैतच्चरित्रलेशं वर्णयितुं प्रयासयन्नहं नोपालभ्यो भवद्भिरत्राऽसमञ्जसं च पुत्रापराधवन्मर्षयितव्यम् । यतः - बालस्य यथा वचनं काहलमपि शोभते पितृसकाशे। तद्वत् सजनमध्ये प्रलपितमपि सिद्धिमुपयाति । ३५ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92