Book Title: Namami Nityam Guru Dharmsurim Author(s): Akshayratnavijay Publisher: AkshayratnavijayPage 60
________________ 'प्रयोगगति'सम्यत्स्वाभिवाः २२ "मित्र ! धर्मगुरोरस्य करतलरेखा नितरां विस्मयप्रदा: सन्ति । अनुमन्येऽहं ध्रुवं यत् कोट्यधिपस्येमा हस्तरेखा : सन्ति।" "अनुभवबलेनाऽहं त्वदनुमानं समर्थये । गुरुवरा : स्वयं कामं निष्किञ्चना: सन्ति, निष्परिग्रहा: सन्ति। किन्तु, तेषां प्रकृष्टप्रेरणया सत्कार्येषु नैककोटिप्रमाणरूप्यकाणां दानानि त्ववश्यमद्यापि भवन्ति। अस्मात् कारणादेतेऽपि कोट्यधीशदानेश्वरसदृशाएव सन्ति।" - "गिरीशभाई' इति नामक: श्रमणोपासक; स्वमित्रंसस्मितं प्रत्युक्तवान्। वार्तामूलमिदम्-उक्त: सुश्रावकस्तदानी गोडीजी-पायधुनीमध्ये चतुर्मासाथ संस्थितानां पूज्यपादारविन्दयुगदिवाकरगुरुवराणां दर्शनार्थमागतवान्, नैजं यवनमित्रमपि आत्मना सहानीतवान्। स यवनसुहृत् -कल्याणनिवासिहसनअलीनूरमहम्मद आसीत्।तेनसंवादोऽयमारब्धः। अनुसंवाद यदा गुरुवरैस्तयोः पुर: 'धर्मलाभः' इत्याशासितुं वामेतरो हस्त: प्रसारितस्तदानीमसौ नूरमहम्मदोऽतितरां विस्मितवान्। यतो हस्तरेखाशास्त्रे स पारमित आसीत्। निमेषमात्रं निरीक्षितुमुपलब्धाभिरमूभिर्हस्तरेखाभिः सोऽतिप्रभावितो जातवान्।ततो बहित्यिा मित्रेण राहोक्तवार्तालापंकृतवान्। श्रुतोत्तर: साकाङ्को हसनअलीनूरमहम्मदो मित्रं प्रति उक्तवान् - "त्वं मदर्थं गुरुममूं हस्तरेखा दर्शयितुं प्रार्थयस्व। श्रावकमित्रेण सम्मतिर्दत्ता। ततस्तौ पुनर्गुरुवरदर्शनार्थ प्रत्यागतौ। गुरुवराँश्च प्रणम्याभ्यासविशेषाय हस्तरेखामुपलक्षयितुं श्रावक: सम्मति ययाच । एतस्मिन् विषये गुरुवरा सर्वथा औत्सुक्यहीना आसन् । तथाऽपि, 'जैनेतरजन: कश्चिदनेन हेतुनाऽपि जिनेश्वरधर्मसंस्कारैर्भावितो भवेत्तत: शोभनतरं किम् ?' इति सम्यचिन्तनेन सविनोदं समृदुहासं च तेऽमुं नामानि नित्यं गुरुधर्मसूरिन्Page Navigation
1 ... 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215