Book Title: Namami Nityam Guru Dharmsurim
Author(s): Akshayratnavijay
Publisher: Akshayratnavijay
________________
तत्वज्ञानाय जीवितम्
अस्य प्रसङ्गस्यारम्भे प्राकृतभाषीयः श्लोकः स्मरणपथमवतरति
'जइवि हु दिवसेण पयं, घरेइ पक्खिण वा सिलोगद्धं । जोयं मा मुञ्चसु, जइ इच्छसि सिक्खिउं नाणं ।।'
श्लोकभावार्थोऽयम् - यदि त्वं ज्ञानप्राप्तिमिच्छसि तर्हि दिवसपर्यन्तमुद्यमः क्रियताम्, फलतः केवलं पदमेकं कण्ठस्थं भवेत् । पञ्चदशदिवसपर्यन्तं परिश्रमः क्रियताम्, परिणामतः केवलं श्लोकमेकं चित्तस्थं भवेत्, तथाऽपि परिश्रमो नैवमुच्यताम् ।
गुरुवरा: प्रस्तुतं श्लोकं जीवनसात्कारका आसन् । ज्ञानप्राप्त्यर्थं स्वानुकूलतात्यागेऽपि तैः कदापि कश्चिदपि विचारो न कृतः । तेषां कृते स्वानुकूलताया अग्रताक्रमो नाऽऽसन्। 'तत्त्वज्ञानाय जीवितमि ति तेषां मनोगतम्। पूर्वस्मिन् प्रसङ्गे प्रतिकूलतां स्वीकुर्वन्तो गुरुवरा अस्माभिर्विलोकिताः । प्रत्युत वर्तमानलघुप्रसङ्गेऽनुकूलताया निवृत्तमाना गुरुवरा अस्माभिर्विलोकिता भविष्यन्ति ।
प्रस्तुतं वृत्तमपि राजनगरीयम् । २००१ तमं विक्रमवर्षम्। पूज्यपाद्गुरुवरा नागजीभूधरपोलमध्ये चतुर्मासार्थं स्थिता आसन् । पूज्यवर्याः शासनसम्राट श्रीने मिसूरीश्वराः पाञ्जरापोलप्रतिश्रये चतुर्मासहेतुना विराजन्ते स्म ।
नमामि नित्वं गुरुधर्मसूरिम्
Page Navigation
1 ... 202 203 204 205 206 207 208 209 210 211 212 213 214 215