Book Title: Namami Nityam Guru Dharmsurim
Author(s): Akshayratnavijay
Publisher: Akshayratnavijay

Previous | Next

Page 208
________________ गुरुभक्रिमधुमधुव्रताः "अहो ! त्वमधुनाऽपि संस्तारकं न कृतवान् ?" रात्रिर्बह्वी व्यतीता । तथाऽपि गुरुचरणभक्त्यां लीनाः श्रीधर्मसूरीश्वराः (तदानीं मुनिपदस्थिताः) परमगुरुदेवपूज्यपादारविन्द श्रीमोहनसूरीश्वरैः पृष्टाः । १९८२ तमे वैक्रमवर्षे प्रवृत्तैषा वार्ता | तस्मिन् वर्षे तलाजानगरे गुरुवराणां चतुर्मासं स्वकीयगुरुपरम्परानिश्रायामासीत् । पूज्यपादगुरुवराणां च दीक्षाजीवनस्यैष पष्ठः संवत्सरः । तदानीं ते श्रीमहानिशीथसूत्रयोगाराधनायां स्थिता आसन् । तथाऽपि निशायां परमगुरुचरणशुश्रूषाया नित्योपक्रमे ते बद्धानुशया आसन् । अस्यां पदभक्त्यां विशेषताऽप्यासीत्। परमगुरुवरै: 'अथ गच्छ' इत्यनुज्ञा न दीयेत, तावत्पर्यन्तं पदपर्युपासनायां विरामो न कार्य इति प्रतिज्ञायुक्ता सा भक्तिः । एकदा निशायां गुरुवरैः पदमक्तिः प्रारब्धा पश्चात् परमगुरुवराः सपदि निद्राधीना जातः । अतः 'अथ गच्छ' इत्यनुज्ञान प्राप्ता । समयः सरित्वदवहत् । घटिकाचतुष्कपर्यन्तं निरन्तरं तैः पदभक्तिः कृता । अत्रान्तरेऽकस्मात् परमगुरुवरा अनागर, सहसा च पप्रच्छुः - "भोः ! समय: कतिपयोऽभवत्?" "एकादशवादनवेला जाता गुरुदेव ! " सहजमुत्तरं प्रदत्तम् । श्रुत्वेदं परमगुरुवरैः साश्चर्यं प्रागुक्तं पृष्टं यत्-"अहो ! एतावति समये सत्यपि त्वं संस्तारकं न कृतवान ?" गुरुवरा अवदन्- "नगुरुदेव ! अत्रभवतोऽनुज्ञामप्राप्य संस्तारक: कथं भवेत् ?" नमामि नित्वं गुरुधर्मसूरिम् २९

Loading...

Page Navigation
1 ... 206 207 208 209 210 211 212 213 214 215