Book Title: Namami Nityam Guru Dharmsurim
Author(s): Akshayratnavijay
Publisher: Akshayratnavijay

View full book text
Previous | Next

Page 206
________________ तत्पट्टधरपूज्याचार्यदेवश्रीमद्विजयोदयसूरीश्वराणां पार्वे पूज्यगुरुवरा: श्रीबृहत्कल्पमाष्याख्यग्रन्थस्य वाचनां ग्रहीतुं काक्षितवन्तः। गुरुवराः स्वयं स्वचतुर्मासक्षेत्रे प्रवचनवाचनाऽऽराधनादिषु व्यापृता आसन्। अत: समय: स्वल्प आसीत्। इतः श्रीविजयोदयसूरीश्वराणामपि नियतसमय एवानुकूल आसीत्। अथ ज्ञानपिपासातृप्त्यर्थ क उपाय:? इति व्यामोहो जातः। अन्तत: पूज्यगुरुवराः पूज्योदयसूरीश्वराणामनुकूलं समयं निर्णीतवन्तः। स समय: प्रदोषकालीन आसीत्। आचतुर्मासमेतत्कृते ते प्रदोषकालीनगोचरीप्रभृतिकार्याणि त्यक्त्तवन्तः । गुरुवराणां स्वभावगतं वैशिष्ट्यमासीत् ज्ञानमग्नता। श्रीसङ्येषु तदानीं ते सक्षमविद्वद्रूपेण प्रतिष्ठिता आसन्। तेषां श्रामण्यमपि पञ्चविंशतिवर्षीयमासीत्, तदा विहितोऽयं वृत्तान्तस्तु अत्र प्रासझिक: प्रस्तुत:। अन्यथा ज्ञानप्राप्त्यै स्वानुकूलतात्यागः प्रतिकूलताऽङ्गीकारस्तु तेषां कृतेनाऽऽसीबहुमूल्यः, परमासीत् क्रीडातुल्यः। तत्त्वज्ञानार्जनाय पूर्वलेखोक्त-अत्रोक्तयोर्द्वयोः प्रसङ्गयोर्दृष्टः पूज्यगुरुवर्याणांपुरुषार्थोऽयं मूनं स्मारयति-"सजायसमो नत्थि तवो' इति शास्त्रवचनम्। मानिtegratहिम

Loading...

Page Navigation
1 ... 204 205 206 207 208 209 210 211 212 213 214 215