Book Title: Namami Nityam Guru Dharmsurim
Author(s): Akshayratnavijay
Publisher: Akshayratnavijay
View full book text
________________
तेषामभ्यासशीलेऽन्तःकरणे तदा पूज्यसागरानन्दसूरीश्वरपार्श्वे वाचनाप्राप्तेर्विचारपुष्पं स्फुटितम् । गुरुवरैरागमोद्धारकगुरुवराणां पार्श्वे वाचनासमयोऽपि निर्णीतः । अतिसान्द्रजलधरान् दृष्ट्वा सस्य सन्मुखाऽऽस्यं व्यादाय स्थितस्य चातकस्य निष्ठेव गुरुवराणामभ्यासनिष्ठाऽऽसीत्।
अतो गुरुवरा अन्वहं स्वकीयगुरूणां भक्तिकार्याणि समाप्य विहृत्य च पाञ्जरापोलमध्ये श्रीसागरानन्दसूरीश्वरेभ्यो वाचनाग्रहणस्योपक्रमं प्रारब्धवन्तः । किञ्च मध्याहूनगोचरीसमयपूर्व ते पुनः स्वगुरूणां सेवायामुपतिष्ठन्ति स्म। जैनमर्चन्टसोसायटीप्रतिश्रयात् पाञ्जरापोलस्थान्तरालमपि सार्धक्रोशमितं दीर्घमासीत् । अर्थात् प्रतिपाठार्थं गुरुवरा त्रिक्रोशमितं विहारं कुर्वन्ति स्म। निःसीमधर्मस्य वैशाखमासीयास्ते दिवसाः ।
तत्राऽपि पुनरागमनवेलायां सार्धक्रोशमितो विहारो माध्याह्निक- तीव्रपरितापे भवति स्म, अर्थात् परितापः सीमातीतो भवेत्, तथाऽपि नियमबद्धगुरुवराः प्रतिदिनं वाचनाग्रहणाय गच्छन्ति स्म। अत्राऽपि ध्यानाकर्षका गुरुदेवप्रवृत्तिरियं यद् विद्यागुरवः पूज्यप्रवर- श्रीमत्सागरानन्दसूरीश्वराः श्रमणसम्मेलनकार्यवशाद् यदा यदा कार्यव्यस्ताः स्युस्तदा तदा गुरुवरा मौनीभूय स्वस्थानं गृहीत्वा विद्यागुरूणां मुद्रणाधीनागमादिसाहित्यस्य क्षतिसंशोधनं कुर्वन्ति स्म । परं 'अद्याऽहं पाठवञ्चितोऽभूवम्, व्यथों मे विहारश्रमः एतादृशी
एकाऽपि खेदाभिव्यक्तिस्तैर्न कृता। किञ्च, वर्षेऽस्मिन् गुरुवरास्तादृशं वैदुष्यं धारयन्ति स्म, येन तस्मिन्नेव वर्षे तैर्नवतत्त्वप्रकरणोपरि नव्या सुमङ्गलाख्या षट्सहस्रश्लोकमिता टीका सृष्टा । एतादृशे वैदुष्ये विलसत्यपि तेषु प्रवर्तमानां पूर्वोक्तविनयशीलतां दृष्ट्वा वयं चिन्तयेमद्वयोर्मध्ये को गुणो गुरुवराणां प्रशस्यतरः ? अनुपमाऽभ्यासनिष्ठा ? उत अद्भुता विनयशीलता ?
संयमजीवनस्य चतुर्दशे वर्षे सञ्जातोऽयं प्रसङ्गः । अस्मिन् विषयेऽहं यदा सर्वेषां जनानां हृदयस्थं सदैव च मधुरहसन्तं गुरुवराणां चित्रपटं प्रति पश्यामस्तस्माच्च निर्दोषप्रेमवृष्टिं कुर्वतो गुरुवरान् नतशीर्षेण पृच्छामि यत्-"महोपकारिगुरुवराः ! दीक्षाजीवने चतुर्दशवर्षाणि यावदेकाग्रमनसा भवद्भिरध्ययनं कृतम्, पश्चादपि उक्तविधक्लेशस्य किं प्रयोजनम् ? स क्लेशोऽपि परितापदे वैशाखमासे, क्लान्तदेहेऽपि ?"
प्रत्युत्तरेऽनुभूयते
गुरुवरा: प्रेमकृपानिचिताभ्यां स्वीयशुभ्राक्षिभ्यां हितशिक्षापूर्वं प्रेरयन्ति माम् - "भोः ! एतस्मिन् (अभ्यासविषये) कीदृशः सन्तोष: ? कीदृशः क्लेश: ? कीदृशी च क्लान्तिः ? किं न जानासि त्वं प्रेरणादायिनीं सूक्तिमिमाम् ? "विद्यातुराणां न सुखं न निद्रा।' इति ।" आशास्महे वयं हृदयतःपूज्यगुरुवराणां हितशिक्षेयं शब्दशोऽस्थि-मज्जावदस्मञ्जीवने समवतरेत्।
0.0.0
gen
-

Page Navigation
1 ... 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215