Book Title: Namami Nityam Guru Dharmsurim
Author(s): Akshayratnavijay
Publisher: Akshayratnavijay

Previous | Next

Page 152
________________ साधर्मिकाणांसमुद्धारकाः 'परेषामुपकाराय महतां हि प्रवृत्तयः' अर्थात्, महापुरुषाणां प्रवृत्तयः शश्वत् परोपकारायैव भवति। स्वसाधनाऽऽराधनासुलीना अपितेजीवानामन्येषां दुःखानि दूरीकर्तुं कामं प्रवर्तनो। येषां गुरूणां कृते 'मानवकायेनाऽपि देवतुल्यजीवनधारकाः ...' 'अस्य युगस्याऽपरिमिताऽद्वितीयपुण्येश्वराः... 'शासनसमाजयोरभूतपूर्वोन्नते: कारकाः'... 'प्रसन्नचित्ताः, ऋजुड़वयाः, उदारमनाः, गीतार्थप्रवराः...' इत्यादिड्दयोद्गारान् जिनशासनस्य विद्वांसः अमणवर्या मुक्तकण्ठेन विकिरन्ति स्म, ते पूज्यपदकजा युगदिवाकरगुरुवरा अप्यासन्नेतादृशा एव शासनसन्निष्ठ-परोपकारशीला महापुरुषाः। साधर्मिकाणां कृते तुतत्रभवन्तः पूर्णवत्सलदया आसन्। तस्मिन् समये मुम्बईमहानगरे जैनधर्मिणामागमन रोगचिकित्सा-व्यवसायादिहेतुना विशेषमासीत्। किन्तु मुम्बईमहानगरमागतास्ते धर्मिजना निवासः क्व कार्य इति मुह्यन्ति स्म । येषां केषाञ्चित् स्वजनानां गृहं मुम्बईमहापुरेन स्यात्, ते जनास्तु मुह्यन्त्येव । अपि तु येषां स्वजनगृहं मुम्बापुर्यां स्यात्, तेऽपि स्वजनानां लघुगृहत्वात्तत्र गमनाय सङ्कोचं प्राप्नुवन्ति स्म। एतादृश्यां विकटस्थित्यां सर्वैरपि अनुभूयते स्म-मुम्बईसदृश्यां महानगर्यामेका जैनधर्मशाला नूनं भवितव्येति। पूज्यपादप्रवराणां मानसेऽपीय समस्या स्थानमाप्तवती। अतो वैक्रमीये २०१६ तमे वर्षे मुम्बई-वालकेश्वरस्य चतुर्मासे पर्वाधिराजपर्युषणामध्ये साधर्मिकभक्तिनामकं कर्तव्यं हृदयत उपदिश्य धर्मशालाप्रस्तावस्तत्रभवद्भिः प्रस्तुतः । गुरुवरा उक्तवन्तश्च हृदयस्पृक - "युष्मतसाधर्मिकाः मुम्बापुर्यामागच्छेयुस्तदानीं ते, 'अथेह क्व वसनीयम् ? नमामि नित्वं गुरुधर्मसूरिन्

Loading...

Page Navigation
1 ... 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215