Book Title: Namami Nityam Guru Dharmsurim
Author(s): Akshayratnavijay
Publisher: Akshayratnavijay

View full book text
Previous | Next

Page 168
________________ शतनमस्कारमहामन्त्रस्य दश जपमालिकाः । (२) श्रीगौतमस्वामिगणधरप्रभूनां सहस्राधिको जपः । (३) अन्यो नैकविधः पृथग् जपः (४) पञ्चस्वाराधनातिथिषूपवासतपः (५) नैकानि वर्षाणि यावज्ज्ञानपञ्चमी तिथेराराधना । (६) श्री सिद्धचक्रनवपदमण्डलस्य दीर्घकालिकी आराधना (७) प्रत्येकमासारम्भदिन आचाम्लतपः । श्रामण्यस्य शैशवकाले यदा प्रत्यहं १३-१३ घण्टावादनानि यावज्ज्ञानयज्ञ आरब्ध आसीत्तदापीमा आराधना नित्यमचला आसन् । श्रामण्यस्योत्तरावस्थायां यदा शासनप्रभावनायाः सुवर्णकालः प्रवर्तमान आसीत्तदापीमा आराधना निर्बाधा एवाऽऽसन् । इह तु केवलं स्थूलदैवसिकाराधनानामेव दिग्दर्शनं कारितम् । तद्ऋते विविधतपो जप-भक्तिज्ञान-ध्यानप्रभृतयोऽन्या अनेकविधा आराधनास्तु नाऽत्र सम्मीलिता सन्ति । आराधनायुतं तेषां प्रेरणास्पदं जीवनं निरीक्ष्य कथनलालसो भवामि, 'इमे गुरुवरा आराधना-प्रभावना - रक्षात्मकास्त्रिमूर्तिस्वरूपा आसन् । तेषु तावत्ते प्रथमं आराधनामूर्तिरूपाः ।' अद्य, ईदृशस्य गुरुतीर्थस्य यात्रां कुर्वन्नहं विशिष्टरोमविक्रियामनुभवामि । कस्मिंश्चित् संस्कृत श्लोके चतुर्भिर्मानदण्डैर्गुरोर्व्याख्या शोभना कृताऽस्ति तथाहि धर्मज्ञो धर्मकर्ता च धर्ममार्गप्रवर्तकः । सवेभ्यो धर्मशास्त्रार्थ देशको गुरुरुच्यते ।। - श्लोकस्य भावार्थोऽयम् यो धर्मं यथावज्जानाति, स्वयं धर्मं यथाज्ञानमाचरति, धर्ममार्गं प्रवर्तयति, भव्यजीवानां च धर्ममुपदेशयति तन्नाम गुरुः ॥ प्रसङ्गेऽस्मिन् श्लोकोक्तं धर्मकर्तृविशेषणं गुरुजीवने साधूपलक्षितं भवति । 149

Loading...

Page Navigation
1 ... 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215