Book Title: Namami Nityam Guru Dharmsurim
Author(s): Akshayratnavijay
Publisher: Akshayratnavijay

View full book text
Previous | Next

Page 172
________________ प्रपूर्यन्ते स्म। अतः सर्वत्र भीते: साम्राज्यं प्रसृतम् । अस्मिन् समये भयार्तजैनजनता विप्रकोविदानां क्रियाकाण्डानामनुगन्त्री मा भूत, भयमुक्ता च भवेदित्याशयात् पूज्ययुगदिवाकरगुरुवरा जैनशासनमान्यतपो-जपमयसाधनां विश्वशान्ति-आराधनापर्वरूपेण घोषितवन्तः। आयोजनेऽस्मिन् तपःक्षेत्रे पञ्चविंशतिसहस्रमितानि आचाम्लतपांसि, नैकसंख्यक-अट्ठमतपांसि च निर्णीतानि । जपक्षेत्रे सपादकोटिमानमन्त्राधिराजनमस्कारमहामन्त्रजप-लक्षत्रयमानलोगस्ससूत्रजप-लौकमानोवसग्गहरसूत्रजपाश्च निर्धारिताः। अनुष्ठानेषु मुम्बादेव्या विशालश्रृङ्गाटके २५ सहस्रजनसमावेशक्षमे महति जनाश्रये (मण्डपे) श्रीअरिहन्तमहापूजन - श्रीशान्तिस्नात्रादिविधानानि, प्रतिदिनं पृथक पृथक बक्तृणां वक्तव्यानि, सङ्गीतमया शत्रिभावनाश्चैवंविधा नवनवाः कार्यक्रमा आयोजिताः। तस्मैिश्चैव स्थले शान्तिनगरमण्डप-महावीरमण्डपयोः श्रीपार्श्वभोर्नवग्रहादीनां च विशिष्टरचना-भिर्जनपुरावृत्तस्य सप्राणझल्लिकाप्रदर्शनमपि कृतम्। एवंविधायोजनमध्यगता युगदिवाकरगुरुवरा आसन्। अतः सर्वे कार्यक्रमाः सीमातीतसफला जाताः। जपः सार्द्धद्वयकोटिमानो बभूव । दशसुस्थलेषु तत्कालं कृतेनाऽऽचाम्लप्रबन्धेन ४०सहस्रमाचाम्लतपांसि जातानि। ३०-३० सहस्राणि यावद् भाविकजनाः शान्तिनगरस्य भव्यपृथुलमण्डपेषु प्रत्यवसरेषुलाभार्थमागताः। नव दिवसीयविश्वशान्तिआराधनासत्रस्य चाऽन्तिम दिनम्। तस्मिन् दिने निर्गतायां विशालशान्तिधारारथयात्रायां भाविकजना जलपूरवत् प्रवृद्धाः। लक्षाधिकभाविकयुता सा रथयात्रा। वायुयानेन गगनतो रथयात्राया उपरि मुम्बईमहानगरस्य च विविधप्रदेशानामुपरि शान्तिजलबिन्दवो विक्षिप्ताः। अस्याः सामूहिकधर्मक्रियायाः प्रभावं मन्यामहे, उताऽन्यत् किञ्चित्। परं, अष्टग्रहयुतेः कोऽपि दुष्टो घातको वा प्रभावः क्वाऽपि नाऽनुभूतः। स्वपरधर्मेषु च स्थिताः सरलह्वदया जना जिनशासनस्याऽनुष्ठानानि प्रति सादरा अहोभावयुताश्च सजाताः। विदुषाऽध्यापकेन श्रीमावजी-दामजीशाहवर्येणेदं वृत्तमेकस्मिन् श्लोके सुतरांगुम्फितम् 'अष्टग्रहैर्भययुता जनता यवासीत्, 'किं किं भविष्यति' विचारविमूढचित्ता। विश्वस्य शान्तिकरपर्वविधायको यः, सूरिः स धर्मविजयो विजयं बिभर्तु।।'

Loading...

Page Navigation
1 ... 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215