________________
प्रपूर्यन्ते स्म। अतः सर्वत्र भीते: साम्राज्यं प्रसृतम् । अस्मिन् समये भयार्तजैनजनता विप्रकोविदानां क्रियाकाण्डानामनुगन्त्री मा भूत, भयमुक्ता च भवेदित्याशयात् पूज्ययुगदिवाकरगुरुवरा जैनशासनमान्यतपो-जपमयसाधनां विश्वशान्ति-आराधनापर्वरूपेण घोषितवन्तः।
आयोजनेऽस्मिन् तपःक्षेत्रे पञ्चविंशतिसहस्रमितानि आचाम्लतपांसि, नैकसंख्यक-अट्ठमतपांसि च निर्णीतानि । जपक्षेत्रे सपादकोटिमानमन्त्राधिराजनमस्कारमहामन्त्रजप-लक्षत्रयमानलोगस्ससूत्रजप-लौकमानोवसग्गहरसूत्रजपाश्च निर्धारिताः। अनुष्ठानेषु मुम्बादेव्या विशालश्रृङ्गाटके २५ सहस्रजनसमावेशक्षमे महति जनाश्रये (मण्डपे) श्रीअरिहन्तमहापूजन - श्रीशान्तिस्नात्रादिविधानानि, प्रतिदिनं पृथक पृथक बक्तृणां वक्तव्यानि, सङ्गीतमया शत्रिभावनाश्चैवंविधा नवनवाः कार्यक्रमा आयोजिताः। तस्मैिश्चैव स्थले शान्तिनगरमण्डप-महावीरमण्डपयोः श्रीपार्श्वभोर्नवग्रहादीनां च विशिष्टरचना-भिर्जनपुरावृत्तस्य सप्राणझल्लिकाप्रदर्शनमपि कृतम्।
एवंविधायोजनमध्यगता युगदिवाकरगुरुवरा आसन्। अतः सर्वे कार्यक्रमाः सीमातीतसफला जाताः। जपः सार्द्धद्वयकोटिमानो बभूव ।
दशसुस्थलेषु तत्कालं कृतेनाऽऽचाम्लप्रबन्धेन ४०सहस्रमाचाम्लतपांसि जातानि। ३०-३० सहस्राणि यावद् भाविकजनाः शान्तिनगरस्य भव्यपृथुलमण्डपेषु प्रत्यवसरेषुलाभार्थमागताः। नव दिवसीयविश्वशान्तिआराधनासत्रस्य चाऽन्तिम दिनम्। तस्मिन् दिने निर्गतायां विशालशान्तिधारारथयात्रायां भाविकजना जलपूरवत् प्रवृद्धाः। लक्षाधिकभाविकयुता सा रथयात्रा। वायुयानेन गगनतो रथयात्राया उपरि मुम्बईमहानगरस्य च विविधप्रदेशानामुपरि शान्तिजलबिन्दवो विक्षिप्ताः।
अस्याः सामूहिकधर्मक्रियायाः प्रभावं मन्यामहे, उताऽन्यत् किञ्चित्। परं, अष्टग्रहयुतेः कोऽपि दुष्टो घातको वा प्रभावः क्वाऽपि नाऽनुभूतः। स्वपरधर्मेषु च स्थिताः सरलह्वदया जना जिनशासनस्याऽनुष्ठानानि प्रति सादरा अहोभावयुताश्च सजाताः। विदुषाऽध्यापकेन श्रीमावजी-दामजीशाहवर्येणेदं वृत्तमेकस्मिन् श्लोके सुतरांगुम्फितम्
'अष्टग्रहैर्भययुता जनता यवासीत्, 'किं किं भविष्यति' विचारविमूढचित्ता। विश्वस्य शान्तिकरपर्वविधायको यः, सूरिः स धर्मविजयो विजयं बिभर्तु।।'