Book Title: Namami Nityam Guru Dharmsurim
Author(s): Akshayratnavijay
Publisher: Akshayratnavijay

Previous | Next

Page 196
________________ श्रुतं नास्ति। युगदिवाकरशासननायक श्रीमद्विजयधर्मसूरीश्वराणामस्यामन्तिमयात्रायां मुम्बई महानगर्या विशालसंख्यकगुरुभक्तजना सम्मीलिता आसन्।" अस्यामन्तिमयात्रायां जनार्णवः शब्दशः तरङ्गायते स्म । सार्धतृतीयलक्षाणां यावज्जनानां मध्ये विराजन्ती गुरुवराणां शिबिका निःसीमसिन्धौ प्रसरद बाष्पपोत इव दृश्यते स्म। मुम्बई- पायधुनीतश्चेम्बरशाखापुरं प्रति गच्छन्त्याः शिबिकायात्रायाः प्रारम्भे 'जीपकार' इत्याख्ययानद्वयेनोद्घोषका निरन्तरमुद्घोषयन्ति स्म - "श्रूयताम्, श्रूयताम्... मुम्बई महानगरस्य महोपकारिणां अद्वितीयशासनप्रभावक-शासननायक पूज्याचार्यदेव श्रीमद्विजयधर्मसूरीश्वराणां शिविकायात्राऽऽगच्छति... श्रूयताम्, श्रूयताम्..." " एवमेव यात्राऽवसाने चतुश्चक्रयानत्रयेण निरन्तरमनुकम्पादानं दीयमानमासीत् । रूप्यकाणां तण्डुलादीनां च दानमपि क्रियमाणमासीत् । शिविकायात्रा 'अधुनाऽऽगमिष्यति, अधुनाऽऽगमिष्यति' इत्याशयात् मार्गस्य द्वयोरुपान्तयोर्निश्चलयानेषु विद्युत्स्तम्भेषु चोपरि स्थले स्थले जैन-जैनेतरजनाः पञ्चसप्तघटिकाभि देश - दशघटिकाभिचातुरवदनाः प्रतीक्षन्ते स्म । सर्वे मानवा इमान् महागुरुवरान् शिरसा प्रणम्य वन्दन्ते स्म दक्षिणभारतीयजना उत्तरभारतीयजना यावत् 'एस.आर.पी., पी.आइ.' इत्याख्या अपि शिविकां दृष्ट्वा पादत्राणे निष्क्राम्य किञ्चित् प्रार्थयन्ति स्म । ** अन्तिमयात्रामार्गेऽष्टोत्तरशतेषु स्थलेषु निबद्धानां पुष्पकरण्डिकानां रज्जूः कृष्ट्वा पुष्पवृष्टयः क्रियन्ते स्म । शिविकायात्रायां सम्मीलिताः शतानि सहस्राणि युवानो युवतयश्च नग्नपादैश्चलन्ति स्म, मार्गमध्ये स्थाने स्थाने भक्तिपूर्वं दीयमानमेकमपि खाद्यं न खादन्ति स्म यावद् दाधिकां गुडजल शर्कराजलं वाऽपि नाऽपिबन् । तद्दिदने बहवो जना उपवासतपः कृतवन्तः । चतुर्दशघटिका यावत् प्रवाहितेयं शिविकायात्रा २.०० वादनसमये चेम्बरशाखापुरसीमां प्राविशत् तदा मानवसमुद्रश्वेम्बुरनगरे विलसति स्म । चेम्बरधर्मस्थानप्रवेशसमये प्रवेशद्वारस्योपरिष्टादधित-श्वावलम्बमाना भाविकजनाः गुरुवरसंस्मरणाय शिबिकायाः कौशेयानां कुम्भिकानां च प्राप्तये मिथः सङ्घष्टवन्तः । फलतः शिबिका यदा चन्दनचितिकां प्राप्तवती तदा तत्सर्वमेवाऽदृश्यं जातम् भावाऽर्णवस्य जनाऽर्णवस्य चैतादृशानि २०१

Loading...

Page Navigation
1 ... 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215