________________
साधर्मिकाणांसमुद्धारकाः
'परेषामुपकाराय महतां हि प्रवृत्तयः' अर्थात्, महापुरुषाणां प्रवृत्तयः शश्वत् परोपकारायैव भवति। स्वसाधनाऽऽराधनासुलीना अपितेजीवानामन्येषां दुःखानि दूरीकर्तुं कामं प्रवर्तनो।
येषां गुरूणां कृते 'मानवकायेनाऽपि देवतुल्यजीवनधारकाः ...' 'अस्य युगस्याऽपरिमिताऽद्वितीयपुण्येश्वराः... 'शासनसमाजयोरभूतपूर्वोन्नते: कारकाः'... 'प्रसन्नचित्ताः, ऋजुड़वयाः, उदारमनाः, गीतार्थप्रवराः...' इत्यादिड्दयोद्गारान् जिनशासनस्य विद्वांसः अमणवर्या मुक्तकण्ठेन विकिरन्ति स्म, ते पूज्यपदकजा युगदिवाकरगुरुवरा अप्यासन्नेतादृशा एव शासनसन्निष्ठ-परोपकारशीला महापुरुषाः। साधर्मिकाणां कृते तुतत्रभवन्तः पूर्णवत्सलदया आसन्।
तस्मिन् समये मुम्बईमहानगरे जैनधर्मिणामागमन रोगचिकित्सा-व्यवसायादिहेतुना विशेषमासीत्। किन्तु मुम्बईमहानगरमागतास्ते धर्मिजना निवासः क्व कार्य इति मुह्यन्ति स्म । येषां केषाञ्चित् स्वजनानां गृहं मुम्बईमहापुरेन स्यात्, ते जनास्तु मुह्यन्त्येव । अपि तु येषां स्वजनगृहं मुम्बापुर्यां स्यात्, तेऽपि स्वजनानां लघुगृहत्वात्तत्र गमनाय सङ्कोचं प्राप्नुवन्ति स्म।
एतादृश्यां विकटस्थित्यां सर्वैरपि अनुभूयते स्म-मुम्बईसदृश्यां महानगर्यामेका जैनधर्मशाला नूनं भवितव्येति।
पूज्यपादप्रवराणां मानसेऽपीय समस्या स्थानमाप्तवती। अतो वैक्रमीये २०१६ तमे वर्षे मुम्बई-वालकेश्वरस्य चतुर्मासे पर्वाधिराजपर्युषणामध्ये साधर्मिकभक्तिनामकं कर्तव्यं हृदयत उपदिश्य धर्मशालाप्रस्तावस्तत्रभवद्भिः प्रस्तुतः । गुरुवरा उक्तवन्तश्च हृदयस्पृक - "युष्मतसाधर्मिकाः मुम्बापुर्यामागच्छेयुस्तदानीं ते, 'अथेह क्व वसनीयम् ?
नमामि नित्वं गुरुधर्मसूरिन्