Book Title: Namami Nityam Guru Dharmsurim Author(s): Akshayratnavijay Publisher: AkshayratnavijayPage 80
________________ विषादपरेषुप्रसादपरा: २७ "गुरुदेव! आशीर्वादो देयः, यतो मरणं समाधियुतं भवेत्।" शान्ताक्रुझ-मुम्बईनिवासिन: करसनभाईनामकस्य जैनश्रावकस्येमे शब्दाः। तस्यदीनस्वरं श्रुत्वा पूज्यपादयुगदिवाकरगुरुवरा: करुणाः अभवन्नितराम्। वस्तुत: परमार्थोऽयम्-'हरितकुष्ठः' इति रोग: (गुर्जरे 'रक्तपित्त' इति) अशुभकर्मोदयेन 'करसनभाई' इत्याख्यश्रावकतनुं व्याप्तवान्। तस्य आजीविकासाधनं समर्यादमासीत्। अतस्तेन 'K.E.M.' इत्याख्ये रुग्णालये दीनचिकित्साविभागे चिकित्साऽऽरब्धा। किन्तु, तस्मिन्नातुरालये तस्य व्याधिरल्पसमयेन वृद्धि गतवान्, यतो दीनचिकित्साविभागे व्याधिग्रस्ता बहव आसन्। किञ्च, नि:शुल्कोपचारत्वाद् वैद्यका उपचारकारकाश्चापि स्वैरवृत्तयः (=स्वेच्छाचारिणः) आसन्। अन्तत आमयेन पराभूत: स सस्वजनो गृहं गच्छति स्म रुग्णालयाद्। मध्येमार्ग स जनश्रद्धातीर्थचेम्बुस्नगरस्थयुगादिदेवपरमात्मश्रीआदीश्वरभगवतामन्तिमदर्शनं चिकीर्षुः सञ्जातः। अत: सर्वे चेम्बुरतीर्थमागता आदीश्वरप्रमुंश्च प्रणम्य सफलनेत्रा बभूवुः। पूज्यपदकजा गुरुवरा अपि तदानीं तत्रैव विराजमाना आसन्। अतो गुरुवन्दनाय सर्वे प्रतिश्रयं गताः। निकषागुरुवरंवासकाचूर्णं गृह्णतातेन श्रावकेनपूर्वोक्तो दुःखदो व्यतिकर: कथितः। करुणामयं गुरुवरहृदयं श्रुत्वेदमतिकरुणादै जातम्। परार्ति दृष्ट्वाऽपि महापुरुषाणां हृदये कारुण्यं न स्यादिति वार्ताऽपि कुत: शक्या?यत उक्तंसूक्तौ परदुःखंकृपावन्तः, सन्तोनोदीक्षितुं क्षमाः' इति। "तत्रभवद्भिः सवात्सल्यं पृष्टम्-"कथमेवमशुभं वदसि?" "गुरुदेव! चरमकक्षो हरितकुष्ठस्त व्याप्तोऽस्ति। चिकित्सकाअपि प्रक्षालितहस्ता: सन्ति।" जानामि नित्यं गुरुधर्मसूरिनPage Navigation
1 ... 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215