________________
विषादपरेषुप्रसादपरा:
२७
"गुरुदेव! आशीर्वादो देयः, यतो मरणं समाधियुतं भवेत्।" शान्ताक्रुझ-मुम्बईनिवासिन: करसनभाईनामकस्य जैनश्रावकस्येमे शब्दाः। तस्यदीनस्वरं श्रुत्वा पूज्यपादयुगदिवाकरगुरुवरा: करुणाः अभवन्नितराम्।
वस्तुत: परमार्थोऽयम्-'हरितकुष्ठः' इति रोग: (गुर्जरे 'रक्तपित्त' इति) अशुभकर्मोदयेन 'करसनभाई' इत्याख्यश्रावकतनुं व्याप्तवान्। तस्य आजीविकासाधनं समर्यादमासीत्। अतस्तेन 'K.E.M.' इत्याख्ये रुग्णालये दीनचिकित्साविभागे चिकित्साऽऽरब्धा। किन्तु, तस्मिन्नातुरालये तस्य व्याधिरल्पसमयेन वृद्धि गतवान्, यतो दीनचिकित्साविभागे व्याधिग्रस्ता बहव आसन्। किञ्च, नि:शुल्कोपचारत्वाद् वैद्यका उपचारकारकाश्चापि स्वैरवृत्तयः (=स्वेच्छाचारिणः) आसन्।
अन्तत आमयेन पराभूत: स सस्वजनो गृहं गच्छति स्म रुग्णालयाद्। मध्येमार्ग स जनश्रद्धातीर्थचेम्बुस्नगरस्थयुगादिदेवपरमात्मश्रीआदीश्वरभगवतामन्तिमदर्शनं चिकीर्षुः सञ्जातः। अत: सर्वे चेम्बुरतीर्थमागता आदीश्वरप्रमुंश्च प्रणम्य सफलनेत्रा बभूवुः। पूज्यपदकजा गुरुवरा अपि तदानीं तत्रैव विराजमाना आसन्। अतो गुरुवन्दनाय सर्वे प्रतिश्रयं गताः। निकषागुरुवरंवासकाचूर्णं गृह्णतातेन श्रावकेनपूर्वोक्तो दुःखदो व्यतिकर: कथितः।
करुणामयं गुरुवरहृदयं श्रुत्वेदमतिकरुणादै जातम्। परार्ति दृष्ट्वाऽपि महापुरुषाणां हृदये कारुण्यं न स्यादिति वार्ताऽपि कुत: शक्या?यत उक्तंसूक्तौ परदुःखंकृपावन्तः, सन्तोनोदीक्षितुं क्षमाः' इति।
"तत्रभवद्भिः सवात्सल्यं पृष्टम्-"कथमेवमशुभं वदसि?" "गुरुदेव! चरमकक्षो हरितकुष्ठस्त व्याप्तोऽस्ति। चिकित्सकाअपि प्रक्षालितहस्ता: सन्ति।"
जानामि नित्यं गुरुधर्मसूरिन