Book Title: Namami Nityam Guru Dharmsurim
Author(s): Akshayratnavijay
Publisher: Akshayratnavijay

View full book text
Previous | Next

Page 144
________________ करुणापूर्ण जीवनम् ४१ अथ पुण्यनामधेयगुरुदेवानां जीवनेऽस्थिमज्जावत् स्थितायाः करुणावृत्तेरन्यदेकं प्रशस्तमुदाहरणम्। तन्नाम वैक्रमीये २०३३-२०३४ तमवर्षयोर्निर्गतयोर्द्वयोर्महतोः ६ 'री' पालकपदयात्रासङ्घयोर्नित्यशः क्रियमाणमनुकम्पादानम् । पूज्यवराणां प्रेरणया सानुकम्पं दानमिदं प्रत्यहं पदयात्रासङ्घस्य बहिर्निवेशं सायं घटिकाद्वयं यावद् दीयमानम्। निकटस्थग्रामादुपनगरादुपवनाच्चागता जनताः शिष्टाचारेणोपविश्यन्ते स्म । पश्चान्मुक्तमनसा वस्त्र - कम्बल - स्थालीलघुपिठर-उपहस्तिका - जलधरी - जीवनोपयोगिगृहसामग्री- धान्याऽऽदीनि कार्यकर्तारस्तेभ्यः समर्पयन्ति स्म । निरन्तरं ७२ - ७२ दिनानि यावन् मुम्बई - शत्रुञ्जयमहातीर्थस्य पदयात्रासङ्घे २४ - २४ दिनानि यावत् श्रीशत्रुञ्जयगिरनारमहातीर्थस्य पदयात्रासङ्घे प्रवृत्तिरियमस्खलिता निरन्तराया स्थिता। 'सुरेशभाई गुलाबचन्द झवेरी, भरतभाई अमरचन्द झवेरी' इति द्वाभ्यां कार्यकर्तृश्रावकाभ्यामेव दशसहस्राणि स्थाली- लघुपिठर - जलपात्रादीनि मुम्बईपादलिप्तपुरमहातीर्थपदयात्रासङ्घमध्ये प्रदत्तानि आसन् । अनर्गलद्रव्याणि दीयमानानि आसन् । नवानि द्रव्याणि कथमागमिष्यन्ति ? इति विचारोऽपि अकृत स्यात् । तथाऽपि गुरुकृपया तत्प्रवृत्तिः कदापि सव्यवधाना न जाता । अनुकम्पादानस्य ग्रहीतृभिर्जिनधर्मो मुक्तकण्ठेन श्लाघ्यते स्म । तद्दृष्ट्वैतादृशं नितरामनुभूयते स्म यदेतेन दानेन कदाचित् कश्चिज्जीवः प्राप्तसम्यक्त्वो भवेत् तर्हि न विस्मयः । अनुकम्पादानस्य महान् प्रभावो जैनेतरेष्वपि प्रसृतः। गुरुवराणां कालधर्मस्य पश्चादेतादृशा प्रसङ्गा अपि कर्णविषया अभवन्। वयं तेषु एकतमं प्रसङ्गं स्मरेम। | नमामि नित्यं गुरुधर्मसूरि १६१

Loading...

Page Navigation
1 ... 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215