________________
करुणापूर्ण जीवनम्
४१
अथ पुण्यनामधेयगुरुदेवानां जीवनेऽस्थिमज्जावत् स्थितायाः करुणावृत्तेरन्यदेकं प्रशस्तमुदाहरणम्। तन्नाम वैक्रमीये २०३३-२०३४ तमवर्षयोर्निर्गतयोर्द्वयोर्महतोः ६ 'री' पालकपदयात्रासङ्घयोर्नित्यशः क्रियमाणमनुकम्पादानम् ।
पूज्यवराणां प्रेरणया सानुकम्पं दानमिदं प्रत्यहं पदयात्रासङ्घस्य बहिर्निवेशं सायं घटिकाद्वयं यावद् दीयमानम्। निकटस्थग्रामादुपनगरादुपवनाच्चागता जनताः शिष्टाचारेणोपविश्यन्ते स्म । पश्चान्मुक्तमनसा वस्त्र - कम्बल - स्थालीलघुपिठर-उपहस्तिका - जलधरी - जीवनोपयोगिगृहसामग्री- धान्याऽऽदीनि कार्यकर्तारस्तेभ्यः समर्पयन्ति स्म । निरन्तरं ७२ - ७२ दिनानि यावन् मुम्बई - शत्रुञ्जयमहातीर्थस्य पदयात्रासङ्घे २४ - २४ दिनानि यावत् श्रीशत्रुञ्जयगिरनारमहातीर्थस्य पदयात्रासङ्घे प्रवृत्तिरियमस्खलिता निरन्तराया स्थिता। 'सुरेशभाई गुलाबचन्द झवेरी, भरतभाई अमरचन्द झवेरी' इति द्वाभ्यां कार्यकर्तृश्रावकाभ्यामेव दशसहस्राणि स्थाली- लघुपिठर - जलपात्रादीनि मुम्बईपादलिप्तपुरमहातीर्थपदयात्रासङ्घमध्ये प्रदत्तानि आसन् ।
अनर्गलद्रव्याणि दीयमानानि आसन् । नवानि द्रव्याणि कथमागमिष्यन्ति ? इति विचारोऽपि अकृत स्यात् । तथाऽपि गुरुकृपया तत्प्रवृत्तिः कदापि सव्यवधाना न जाता ।
अनुकम्पादानस्य ग्रहीतृभिर्जिनधर्मो मुक्तकण्ठेन श्लाघ्यते स्म । तद्दृष्ट्वैतादृशं नितरामनुभूयते स्म यदेतेन दानेन कदाचित् कश्चिज्जीवः प्राप्तसम्यक्त्वो भवेत् तर्हि न विस्मयः । अनुकम्पादानस्य महान् प्रभावो जैनेतरेष्वपि प्रसृतः। गुरुवराणां कालधर्मस्य पश्चादेतादृशा प्रसङ्गा अपि कर्णविषया अभवन्। वयं तेषु एकतमं प्रसङ्गं स्मरेम।
| नमामि नित्यं गुरुधर्मसूरि
१६१