________________
'प्रयोगगति'सम्यत्स्वाभिवाः
२२
"मित्र ! धर्मगुरोरस्य करतलरेखा नितरां विस्मयप्रदा: सन्ति । अनुमन्येऽहं ध्रुवं यत् कोट्यधिपस्येमा हस्तरेखा : सन्ति।"
"अनुभवबलेनाऽहं त्वदनुमानं समर्थये । गुरुवरा : स्वयं कामं निष्किञ्चना: सन्ति, निष्परिग्रहा: सन्ति। किन्तु, तेषां प्रकृष्टप्रेरणया सत्कार्येषु नैककोटिप्रमाणरूप्यकाणां दानानि त्ववश्यमद्यापि भवन्ति। अस्मात् कारणादेतेऽपि कोट्यधीशदानेश्वरसदृशाएव सन्ति।" - "गिरीशभाई' इति नामक: श्रमणोपासक; स्वमित्रंसस्मितं प्रत्युक्तवान्।
वार्तामूलमिदम्-उक्त: सुश्रावकस्तदानी गोडीजी-पायधुनीमध्ये चतुर्मासाथ संस्थितानां पूज्यपादारविन्दयुगदिवाकरगुरुवराणां दर्शनार्थमागतवान्, नैजं यवनमित्रमपि आत्मना सहानीतवान्। स यवनसुहृत् -कल्याणनिवासिहसनअलीनूरमहम्मद आसीत्।तेनसंवादोऽयमारब्धः।
अनुसंवाद यदा गुरुवरैस्तयोः पुर: 'धर्मलाभः' इत्याशासितुं वामेतरो हस्त: प्रसारितस्तदानीमसौ नूरमहम्मदोऽतितरां विस्मितवान्। यतो हस्तरेखाशास्त्रे स पारमित आसीत्। निमेषमात्रं निरीक्षितुमुपलब्धाभिरमूभिर्हस्तरेखाभिः सोऽतिप्रभावितो जातवान्।ततो बहित्यिा मित्रेण राहोक्तवार्तालापंकृतवान्।
श्रुतोत्तर: साकाङ्को हसनअलीनूरमहम्मदो मित्रं प्रति उक्तवान् - "त्वं मदर्थं गुरुममूं हस्तरेखा दर्शयितुं प्रार्थयस्व। श्रावकमित्रेण सम्मतिर्दत्ता। ततस्तौ पुनर्गुरुवरदर्शनार्थ प्रत्यागतौ। गुरुवराँश्च प्रणम्याभ्यासविशेषाय हस्तरेखामुपलक्षयितुं श्रावक: सम्मति ययाच । एतस्मिन् विषये गुरुवरा सर्वथा औत्सुक्यहीना आसन् । तथाऽपि, 'जैनेतरजन: कश्चिदनेन हेतुनाऽपि जिनेश्वरधर्मसंस्कारैर्भावितो भवेत्तत: शोभनतरं किम् ?' इति सम्यचिन्तनेन सविनोदं समृदुहासं च तेऽमुं
नामानि नित्यं गुरुधर्मसूरिन्