Book Title: Maisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Author(s): M S Basavalingayya, T T Srinivasgopalachar
Publisher: Oriental Library

Previous | Next

Page 767
________________ 738 DESCRIPTIVE CATALOGUE OF SANSKRIT USS. [à:तंव महिमानं विदुः जानन्ति । तेषां जानतां अनुष्ठातॄणां श्रवांसि अन्नानि उत्तिर वर्धय । इन्द्रमीशानमिति ॥ उपसंहारः मा सा त इति । वाजप्रमहः वाजैर्धनैः प्रमहनीयेन्द्र ते त्वदीया सा सुमतिः शोभनानुग्रहरूपा बुद्धिः अस्मत् अस्मासु मा विदसत् मा विशुष्यतु । तथा इषः अन्नानि अस्मान् संवरन्त संवृतान् कुर्वन्तु । हे मघवन् इन्द्र अर्यः धनपतिः त्वं नः अस्मान् गोषु आभज प्रापय । ते तव मंहिष्ठाः अतिशयन स्तुतिभिः प्रवर्धयितारो वयं सधमादः स्याम पुत्रपौत्रादिभिः सह माद्यन्तो भवेम ॥ इति प्रथमस्य अष्टमे षड्विंशो वर्गः । इति प्रथमायके अष्टमोऽध्यायः ॥ ॥ प्रथमाष्टकं सम्पूर्णम् ॥ प्रतिपाद्यविषयः अत्र अग्नयादिदेवतास्तुतिपराणां तत्तत्क्रतुषु विनियुक्तानामृचां विवरणं उश्यते ॥ वक्तव्यविशेषः अमुद्रितमिदं भाष्यम् ॥ कोशेऽस्मिन्निदं भाष्यं प्रथमाष्टके एकविशे वर्गे षष्ठीमृचमारभ्य प्रथमाष्टकसमाप्तिपर्यन्तं दृश्यते । ऋक्संहितासायणभाष्यपरिदृश्यमानान् व्याकरणप्रक्रियादिविशेषान् परित्यज्य तत्रत्य एव ऋगर्थवर्णनक्रमोऽत्र बालबोधाय मुद्गलनाना केनचिदाधुनिकेन संगृहीत इति भाति ॥ अत एव चादौ आलोच्य पूर्वभाष्यं च बढ़चस्य समन्ततः। गहनं मन्यमानेन सुबोधेन समुद्धृतम् । नवनीतं यथा क्षीरासिकतायाश्च काञ्चनम् । तथा समुद्धृतं सारं बालानां बोधसिद्धये । मौद्गल्यगोत्रेण च मुद्गलेन ह्यात्मानुभूतेन सुसंस्कृतेन । यथार्थभूतेन सुसाधकेन समुद्धृतं सारमिदं वरिष्ठम् ॥ इति प्रतिक्षातं दृश्यते ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830